वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: सौभरिः छन्द: प्रगाथः स्वर: सूक्त-१४

हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अम॑न्दत। आ तु॑ नः॒ स व॑यति॒ गव्य॒मश्व्यं॑ स्तो॒तृभ्यो॑ म॒घवा॑ श॒तम् ॥

मन्त्र उच्चारण
पद पाठ

हरिऽअश्वम् । सत्ऽपतिम् । चर्षणिऽसहम् । स: । हि । स्म । य: । अमन्दत ॥ आ । तु । न: । स: । वयति । गव्यति । गव्यम् । अश्व्यम् । स्तोतृऽभ्य: । मघऽवा । शतम् ॥१४.४॥

अथर्ववेद » काण्ड:20» सूक्त:14» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (सः) वह (हि) ही (स्म) अवश्य [मनुष्य है] (यः) जिसने (हर्यश्वम्) ले चलनेवाले घोड़ों से युक्त, (सत्पतिम्) सत्पुरुषों के रक्षक, (चर्षणीसहम्) मनुष्यों को नियम में रखनेवाले [राजा] को (अमन्दत) प्रसन्न किया है। (सः) वह (मघवा) महाधनी (तु) तो (नः) हम (स्तोतृभ्यः) स्तुति करनेवालों को (शतम्) सौ [बहुत] (गव्यम्) गौओं का समूह और (अश्व्यम्) घोड़ों का समूह (आ वयति) लाता है ॥४॥
भावार्थभाषाः - सब प्रजागण आज्ञा मानकर शूर धर्मात्मा राजा को प्रसन्न रक्खें, जिससे वह उत्तम प्रबन्ध के साथ प्रजा का ऐश्वर्य बढ़ावे ॥४॥
टिप्पणी: ४−(हर्यश्वम्) हरयो हरणशीला अश्वा यस्य तम्। शीघ्रगामितुरङ्गवन्तम् (सत्पतिम्) सतां कर्मश्रेष्ठानां पालकम् (चर्षणीसहम्) चर्षणीनां मनुष्याणां सोढारम् अभिभवितारं नियन्तारम् (सः) हि (स्म) अवश्यम् (यः) पुरुषः (अमन्दत) मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु-लङ्। आमोदितवान्। तर्पितवान् (आ वयति) वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु-लट्, छान्दसः शप्। आगमयति। प्रापयति (तु) अवधारणे। नियोगे (नः) अस्मभ्यम् (सः) (गव्यम्) गोसमूहम् (अश्व्यम्) अश्वसमूहम् (स्तोतृभ्यः) (मघवा) महाधनी (शतम्) बहु ॥