वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: अत्रिः छन्द: त्रिष्टुप् स्वर: सूक्त-१२

ऋ॑जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑। यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ्माध्य॑न्दिने॒ सव॑ने मत्स॒दिन्द्रः॑ ॥

मन्त्र उच्चारण
पद पाठ

ऋजीषी । वज्री । वृषभ: । तुराषाट् । शुष्मी । राजा । वृत्रऽहा । सोमऽपावा ॥ युक्त्वा । हर‍िऽभ्याम् । उप । यासत् । अर्वाङ् । माध्यंदिने । सवने । मत्सत् । इन्द्र: ॥१२.७॥

अथर्ववेद » काण्ड:20» सूक्त:12» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सेनापति के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (ऋजीषी) महाधनी, (वज्री) वज्रधारी [शस्त्र-अस्त्रोंवाला], (वृषभः) बलवान्, (तुराषाट्) हिंसक शत्रुओं का हरानेवाला, (शुष्मी) बलवान् सेनावाला, (राजा) राजा, (वृत्रहा) वैरियों का मारनेवाला, (सोमपावा) सोम [महौषधियों के रस] का पीनेवाला (इन्द्रः) इन्द्र [महाप्रतापी सेनापति] (हरिभ्याम्) दो घोड़ों से [रथ को] (युक्त्वा) जोतकर (अर्वाङ्) सामने (उप यासत्) आवे और (माध्यन्दिने) मध्याह्न में (सवने) यज्ञ के बीच (मत्सत्) आनन्द पावे ॥७॥
भावार्थभाषाः - राजा महाधनी, प्रतापी, शस्त्र-अस्त्रधारी होकर शत्रुओं का नाश करके प्रजा की रक्षा करे और दोपहर दिन के समान लोगों में आनन्द का प्रकाश करे ॥७॥
टिप्पणी: यह मन्त्र ऋग्वेद में है-।४०।४ ॥ ७−(ऋजीषी) अर्जेर्ऋज च। उ० ४।२८। अर्ज अर्जने-ईषन्, कित्, ऋजादेशश्च। ऋजीषं धनमस्यास्तीति-इति। महाधनी (वज्री) शस्त्रास्त्रभृत् (वृषभः) बलिष्ठः (तुराषाट्) तुर हिंसायाम्-क+षह अभिभवे-ण्वि, अन्येषामपि दृश्यते। पा० ६।३।१३७। इति दीर्घः। तुराणां हिसकशत्रूणामभिभविता (शुष्मी) शुष्मं बलिष्ठं सैन्यं विद्यते यस्य सः (राजा) शासकः (वृत्रहा) शत्रुहन्ता (सोमपावा) श्रेष्ठौषधिरसस्य पानकर्ता (युक्त्वा) योजयित्वा (हरिभ्याम्) अश्वाभ्याम् (उप यासत्) आगच्छेत् (अर्वाङ्) अभिमुखः (माध्यन्दिने) मध्याह्ने (सवने) यज्ञमध्ये (मत्सत्) आनन्देत् (इन्द्रः) महाप्रतापी सेनापतिः ॥