ते त्वा॒ मदा॑ इन्द्र मादयन्तु शु॒ष्मिणं॑ तुवि॒राध॑सं जरि॒त्रे। एको॑ देव॒त्रा दय॑से॒ हि मर्ता॑न॒स्मिन्छू॑र॒ सव॑ने मादयस्व ॥
पद पाठ
ते । त्वा । मदा: । इन्द्र । मादयन्तु । शुष्मिणम् । तुविऽराधसम् । जरित्रे ॥ एक: । देवऽत्रा । दयसे । हि । मर्तान् । अस्मिन् । शूर । सवने । मादयस्व ॥१२.५॥
अथर्ववेद » काण्ड:20» सूक्त:12» पर्यायः:0» मन्त्र:5
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सेनापति के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [महाप्रतापी सेनापति] (ते) वे (मदाः) आनन्द करते हुए वीर (शुष्मिणम्) महाबली और (तुविराधसम्) बड़े धनी (त्वा) तुझको (जरित्रे) स्तुति करनेवाले के लिये (मादयन्तु) हर्षित करें। (देवत्रा) विद्वानों में (एकः हि) अकेला ही तू (मर्तान्) मनुष्यों पर (दयसे) दया करता है, (शूर) हे शूर ! (अस्मिन्) इस (सवने) प्रेरणा में [सबको] (मादयस्व) आनन्दित कर ॥॥
भावार्थभाषाः - सब सैन्यदल अपने पराक्रमों से मुख्य सेनापति को प्रसन्न करें और वह सेनापति भी उन सबों पर पूर्ण दया करे, जिससे शत्रुओं का नाश और प्रजा की रक्षा होवे ॥॥
टिप्पणी: −(ते) प्रसिद्धाः (त्वा) त्वाम् (मदाः) आनन्दयुक्ताः सुभटाः-दयानन्दभाष्ये, ऋ० ७।२३। (इन्द्रः) (मादयन्तु) हर्षयन्तु (शुष्मिणम्) बलिष्ठम् (तुविराधसम्) बहुधनयुक्तम् (जरित्रे) स्तोत्रे (एकः) अद्वितीयः (देवत्रा) विद्वत्सु (दयसे) म० ४। दयां करोषि (हि) एव (मर्तान्) मनुष्यान् (अस्मिन्) वर्तमाने (शूर) निर्भय (सवने) प्रेरणे (मादयस्व) आनन्दयस्व सर्वानिति शेषः ॥
