स॑त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्वर॒पश्च॑ दे॒वीः। स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं॑ मद॒न्त्यनु॒ धीर॑णासः ॥
पद पाठ
सत्राऽसहम् । वरेण्यम् । सह:ऽदाम् । ससऽवांसम् । स्व:। अप: । च । देवी: ॥ ससान । य: । पृथिवीम् । द्याम् । उत । इमाम् । इन्द्रम् । मदन्ति । अनु । धीऽरणास: ॥११.८॥
अथर्ववेद » काण्ड:20» सूक्त:11» पर्यायः:0» मन्त्र:8
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (यः) जिस [वीर] ने (इमाम्) इस (पृथिवीम्) पृथिवी (उत) और (द्याम्) आकाश को (ससान) सेवा है, [उस] (सत्रासाहम्) सत्यों के सहनेवाले, (वरेण्यम्) स्वीकार करने योग्य, (सहोदाम्) बल के देनेवाले, (स्वः) सुख (च) और (देवीः) उत्तम (अपः) प्राणों के (ससवांसम्) दान करनेवाले, (इन्द्रम्) इन्द्र [महाप्रतापी वीर] के (अनु) पीछे (धीरणासः) उत्तम बुद्धियों के लिये युद्ध करनेवाले लोग (मदन्ति) सुख पाते हैं ॥८॥
भावार्थभाषाः - जो विद्वान् पुरुष पृथिवी और आकाश के पदार्थों से विद्या द्वारा उपयोग लेता है, उसी सत्यवादी के पीछे चलकर सब सत्यकर्मी वीर लोग आनन्द पाते हैं ॥८॥
टिप्पणी: ८−(सत्रासाहम्) यः सत्रा सत्यानि सहते तम् (वरेण्यम्) स्वीकरणीयम् (सहोदाम्) बलस्य दातारम् (ससवांसम्) षणु दाने-क्वसु। दत्तवन्तम् (स्वः) सुखम् (अपः) प्राणान् (च) (देवीः) दिव्याः (ससान) षण सम्भक्तौ-लिट्। सेवितवान्। उपयुक्तवान् (यः) इन्द्रः (पृथिवीम्) भूमिम्। भूमिस्थपदार्थानित्यर्थः (द्याम्) आकाशम्। आकाशस्थपदार्थानित्यर्थः (उत) अपि च (इमाम्) दृश्यमानाम् (इन्द्रम्) परमैश्वर्यवन्तं पुरुषम् (मदन्ति) हृष्यन्ति (अनु) अनुसृत्य (धीरणासः) धीः प्रज्ञानाम-निघ० ३।९। रणः संग्रामनाम-निघ० २।१७। असुगागमः। धीभ्यः प्रशस्तप्रज्ञाभ्यो रणः सङ्ग्रामो येषां ते ॥
