यु॒धेन्द्रो॑ म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः। वि॒वस्व॑तः॒ सद॑ने अस्य॒ तानि॒ विप्रा॑ उ॒क्थेभिः॑ क॒वयो॑ गृणन्ति ॥
पद पाठ
युधा । इन्द्र: । महा । वरिव: । चकार । देवेभ्य: । सत्ऽपति: । चर्षणिऽप्रा: ॥ विवस्वत: । सदने । अस्य । तानि । विप्रा: । उक्थेभि: । कवय: । गृणन्ति ॥११.७॥
अथर्ववेद » काण्ड:20» सूक्त:11» पर्यायः:0» मन्त्र:7
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (सत्पतिः) सत्पुरुषों के पालनेवाले, (चर्षणिप्राः) मनुष्यों के मनोरथ पूरण करनेवाले (इन्द्रः) इन्द्र [महाप्रतापी पुरुष] ने (युधा) युद्ध के साथ (मह्ना) अपनी महिमा से (देवेभ्यः) विद्वानों के लिये (वरिवः) सेवनीय धन (चकार) किया है। (विवस्वतः) विविध निवासोंवाले [धनी मनुष्य] के (सदने) घर में (अस्य) इस [पुरुष] के (तानि) उन [कर्मों] को (विप्राः) बुद्धिमान् (कवयः) ज्ञानी पुरुष (उक्थेभिः) अपने वचनों से (गृणन्ति) सराहते हैं ॥७॥
भावार्थभाषाः - जो मनुष्य परोपकारी होकर बड़े कष्ट उठाकर सत्पुरुषों का पालन करते हैं, वे ही संसार में बड़े गिने जाते और कीर्तिमान् होते हैं ॥७॥
टिप्पणी: ७−(युधा) युद्धेन (इन्द्रः) महातेजस्वी पुरुषः (मह्ना) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। मह पूजायाम्-नप्रत्ययः। महिम्ना (वरिवः) वृञ् वरणे यङ्लुकि, असुन्। ऋतश्च। पा० ७।४।९२। अभ्यासस्य रिगागमः, टिलोपः। वरिवो धननाम-निघ० २।१०। वरणीयं धनम् (चकार) उत्पादयामास (देवेभ्यः) विदुषामर्थम् (सत्पतिः) सतां पालकः (चर्षणिप्राः) प्रा पूरणे-विच्। मनुष्याणां मनोरथपूरकः (विवस्वतः) वि+वस निवासे-क्विप्, मतुप्। विवस्वन्तो मनुष्यनाम-निघ० २।३। बहुनिवासयुक्तस्य धनिनः पुरुषस्य (सदने) गृहे (अस्य) इन्द्रस्य (तानि) प्रसिद्धानि कर्माणि (विप्राः) मेधाविनः (उक्थेभिः) स्ववचनैः (कवयः) विद्वांसः (गृणन्ति) स्तुवन्ति ॥
