म॒हो म॒हानि॑ पनयन्त्य॒स्येन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑। वृ॒जने॑न वृजि॒नान्त्सं पि॑पेष मा॒याभि॑र्द॒स्यूँर॒भिभू॑त्योजाः ॥
पद पाठ
मह: । महानि । पनयन्ति । अस्य । इन्द्रस्य । कर्म । सऽकृता । पुरूणि । वृजनेन । वृजिनान् । सम् । पिपेष । मायाभि:। दस्यून् । अभिभूतिऽओजा: ॥११.६॥
अथर्ववेद » काण्ड:20» सूक्त:11» पर्यायः:0» मन्त्र:6
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (महः) महान् लोग (अस्य) इस (इन्द्रस्य) इन्द्र [महाप्रतापी राजा] के (सुकृता) धर्म से किये हुए (पुरूणि) बहुत से (महानि) महान् [पूजनीय] (कर्म) कर्मों को (पनयन्ति) सराहते हैं। (अभिभूत्योजाः) हरा देनेवाले बल से युक्त [शूर] ने (वृजिनान्) पापी (दस्यून्) साहसी चोरों को (वृजनेन) बल के साथ (मायाभिः) बुद्धियों से (सं पिपेष) पीस डाला ॥६॥
भावार्थभाषाः - जिस प्रतापी धर्मात्मा राजा की कीर्ति को बड़े-बड़े लोग गाते हों, वह राजा अपनी कीर्ति स्थिर रखने के लिये दुराचारियों का नाश करके प्रजा को सुखी रक्खे ॥६॥
टिप्पणी: ६−(महः) मह पूजायाम्-क्विप्। महान्तः पुरुषाः (महानि) मह पूजायाम्-अप्। महान्ति (पनयन्ति) छान्दसो ह्रस्वः। पनायन्ति। स्तुवन्ति (अस्य) प्रसिद्धस्य (इन्द्रस्य) महातेजस्विनः पुरुषस्य (कर्म) कर्माणि (सुकृता) धर्मेण सम्पादितानि (पुरूणि) बहूनि (वृजनेन) कॄपॄवृजिमन्दिनिधाञः क्युः। उ० २।८१। वृजी वर्जने-क्यु। बलेन-निघ० २।९ (वृजिनान्) वृजेः किच्च। उ० २।४७। वृजी वर्जने-इनच्। वृजिन-अर्शआद्यच्। वृजनं पापं तद्वतः। पापिनः पुरुषान् (सं पिपेष) पिष्लृ संचूर्णने-लिट्। सम्यक् चूर्णीचकार (मायाभिः) प्रज्ञाभिः-निघ० ३।९। (दस्यून्) साहसिकान्। उत्कोचकान्। चोरान् (अभिभूत्योजाः) अभिभूतिं पराजयकरमोजा बलं यस्य सः ॥
