वांछित मन्त्र चुनें

इन्द्रो॑ वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒ प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः। अह॒न्व्यंसमु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ अकृणोद्रा॒म्याणा॑म् ॥

मन्त्र उच्चारण
पद पाठ

इन्द्र: । वृत्रम्‌ । अवृणोत् । शर्धऽनीति: । प्र । मायिनाम् । अमिनात् । वर्पऽनीति: ॥ अहन् । विऽअंसम् । उशधक् । वनेषु । आवि: । धेना: । अकृणोत् । राम्याणाम् ॥११.३॥

अथर्ववेद » काण्ड:20» सूक्त:11» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (शर्धनीतिः) सेना के नायक (इन्द्रः) इन्द्र [प्रतापी राजा] ने (वृत्रम्) शत्रु को (अवृणोत्) घेर लिया, (मायिनाम्) कपटी लोगों का (वर्पनीतिः) कपटी नेता (प्र अमिनात्) अत्यन्त घबराया। (उशधक्) हिंसकों के जलानेवाले ने (वनेषु) वनों में [छिपे] (व्यंसम्) विविध पीड़ा देनेवाले को (अहन्) मारा, और (राम्याणाम्) आनन्द देनेवाले पुरुषों की (धेनाः) वाणियों को (आविः अकृणोत्) प्रकट किया ॥३॥
भावार्थभाषाः - जब शूर सेनापति दुष्टों को मारकर प्रजा को सुखी करता है, तब लोग आनन्द मनाते हुए विविध प्रकार उन्नति करते हैं ॥३॥
टिप्पणी: यह मन्त्र यजुर्वेद में भी है-३३।२६ ॥ ३−(इन्द्रः) परमैश्वर्यवान् राजा (वृत्रम्) शत्रुम् (अवृणोत्) आच्छादितवान् (शर्धनीतिः) शर्धतिरुत्साहार्थः-घञ्+णीञ् प्रापणे-क्तिच्। शर्धो बलनाम-निघ० २।९। बलस्य सैन्यस्य नायकः (प्र) प्रकर्षेण (मायिनाम्) कपटिनाम् (अमिनात्) मीञ् हिंसायाम्-लङ्। कर्तृप्रयोगः कर्मण्यर्थे। हिंसितो दुःखितोऽभूत् (वर्पनीतिः) खष्पशिल्पशष्प०। उ० ३।२८। वृञ् आच्छादने-पप्रत्ययः+णीञ् प्रापणे-क्तिच्। वर्प आवरकः कपटी नीतिर्नेता (अहन्) अवधीत् (व्यंसम्) अमेः सन्। उ० ।२१। अम पीडने-सन्। विविधपीडकम् (उशधक्) उष वधे-क+दह दाहे-क्विप्, षस्य शः। हिंसकानां दाहकः (वनेषु) जङ्गलेषु (आविः) प्राकट्ये (धेनाः) वाचः (अकृणोत्) कृवि हिंसाकरणयोः-लङ्। अकरोत् (राम्याणाम्) ऋहलोर्ण्यत्। पा० ३।१।१२४। रमु क्रीडायाम्, ण्यर्थाद् ण्यत्। कृत्यल्युटो बहुलम्। पा० ३।३।११३। इति कर्तृप्रत्ययः। रमयन्ति आनन्दयन्ति तेषाम्-दयानन्दभाष्ये, यजु० ३३।२६। रमयितॄणां रामाणाम् आनन्दयितॄणां पुरुषाणाम् ॥