वांछित मन्त्र चुनें
127 बार पढ़ा गया

शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ। शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥

मन्त्र उच्चारण
पद पाठ

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ॥ शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥११.११॥

अथर्ववेद » काण्ड:20» सूक्त:11» पर्यायः:0» मन्त्र:11


पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (शुनम्) सुख देनेवाले (मघवानम्) बड़े धनी, (अस्मिन्) इस (भरे) युद्ध के बीच (वाजसातौ) अन्न के पाने में (नृतमम्) बड़े नेता, (शृण्वन्तम्) सुननेवाले, (उग्रम्) तेजस्वी, (समत्सु) सङ्ग्रामों में (वृत्राणि) शत्रुओं को (घ्नतम्) मारनेवाले, (धनानाम्) धनों के (संजितम्) जीत लेनावाले (इन्द्रम्) इन्द्र [महाप्रतापी जन] को (ऊतये) रक्षा के लिये (हुवेम) हम बुलावें ॥११॥
भावार्थभाषाः - प्रजागण न्यायकारी, प्रतापी, शत्रुनाशक, शूर राजा का सदा आदर करें ॥११॥
टिप्पणी: यह मन्त्र कुछ भेद से सामवेद में है-उ० ४।४।७। और बिना भेद ऋग्वेद में चौदह [१४] बार है-म० ३। सू० ३०, ३१, ३२, ३४, ३, ३६, ३७, ३८, ३९, ४३, ४८, ४९, ०, म० १०। सू० ८९, १०४ के अन्त में ॥ ११−(शुनम्) सुखप्रदम् (हुवेम) आह्वयेम (मघवानम्) महाधनिनम् (इन्द्रम्) परमैश्वर्यवन्तं पुरुषम् (अस्मिन्) वर्तमाने (भरे) संग्रामे-निघ० २।१७ (नृतमम्) अतिशयेन नेतारम् (वाजसातौ) अन्नस्य लाभे (शृण्वन्तम्) श्रोतारम् (उग्रम्) प्रचण्डम् (ऊतये) अवनाय। रक्षणाय (समत्सु) सम्+अद भक्षणे, यद्वा, सम्+मदी हर्षे-क्विप्। समदः समदो वात्तेः सम्मदो वा मदतेः-निरु० ९।१७। संग्रामेषु-निघ० २।१७ (घ्नन्तम्) नाशयन्तम् (वृत्राणि) शत्रून् (संजितम्) सम्यग् जेतारम् (धनानाम्) सुवर्णादीनाम् ॥