वांछित मन्त्र चुनें

कण्वा॑ इव॒ भृग॑वः॒ सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः। इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यवः॑ प्रि॒यमे॑धासो अस्वरन् ॥

मन्त्र उच्चारण
पद पाठ

कण्वा:ऽइव । भृगव: । सूर्याऽइव । विश्वसु । इत् । धीतम् । आनशु: ॥ इन्द्रम् । स्तोमेभि: । महयन्त: । आयव: । प्रियमेधास: । अस्वरन् ॥१०.२॥

अथर्ववेद » काण्ड:20» सूक्त:10» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ईश्वर की उपासना का उपदेश।

पदार्थान्वयभाषाः - (कण्वाः इव) बुद्धिमानों के समान और (सूर्याः इव) सूर्यों के समान [तेजस्वी], (भृगवः) परिपक्व ज्ञानवाले, (महयन्तः) पूजते हुए, (प्रियमेधासः) यज्ञ को प्रिय जाननेवाले (आयवः) मनुष्यों ने (विश्वम्) व्यापक, (धीतम्) ध्यान किये गये (इन्द्रम्) इन्द्र [परमात्मा] को (इत्) ही (स्तोमेभिः) स्तोत्रों से (आनशुः) पाया है और (अस्वरन्) उच्चारा है ॥२॥
भावार्थभाषाः - मनुष्य बुद्धिमानों और सूर्यों के समान प्रतापी होकर परमात्मा के गुणों को गाते हुए आत्मोन्नति करें ॥२॥
टिप्पणी: २−(कण्वाः) मेधाविनः (इव) यथा (भृगवः) सू० ९।३। परिपक्वज्ञानिनः (सूर्याः) प्रकाशमानाः सूर्यलोकाः (इव) यथा (विश्वम्) व्यापकम् (इत्) एव (धीतम्) ध्यातम् (आनशुः) प्रापुः (इन्द्रम्) परमात्मानम् (स्तोमेभिः) स्तोत्रैः (महयन्तः) पूजयन्तः (आयवः) मनुष्याः-निघ० २।३ (प्रियमेधासः) मिधृ मेधृ संगमे हिंसामेधयोश्च-घञ्, असुक् च। मेधो यज्ञनाम-निघ० ३।१७। मेधा यज्ञाः प्रिया येषां ते (अस्वरन्) शब्दम् अकुर्वन्। उच्चारितवन्तः ॥