वांछित मन्त्र चुनें

क्ष॒त्रेणा॑ग्ने॒ स्वेन॒ सं र॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धा य॑तस्व। स॑जा॒तानां॑ मध्यमे॒ष्ठा राज्ञा॑मग्ने वि॒हव्यो॑ दीदिही॒ह ॥

मन्त्र उच्चारण
पद पाठ

क्षत्रेण । अग्ने । स्वेन । सम् । रभस्व । मित्रेण । अग्ने । मित्रऽधा: । यतस्व । सऽजातानाम् । मध्यमेऽस्था: । राज्ञाम् । अग्ने । विऽहव्य: । दीदिहि । इह ॥६.४॥

अथर्ववेद » काण्ड:2» सूक्त:6» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजनीति से मनुष्य प्रतापी और तेजस्वी होवे।

पदार्थान्वयभाषाः - (अग्ने) हे तेजस्वी राजन् (स्वेन) अपने (क्षत्रेण) क्षत्रिय धर्म वा धन के साथ (संरभस्व) उत्साह कर, (अग्ने) हे तेजस्वी राजन् ! (मित्रेण) मित्रवर्ग के साथ (मित्रधाः) मित्रों का पुष्ट करनेवाला होकर (यतस्व) प्रयत्न कर। और (अग्ने) हे तेजस्वी राजन् ! (सजातानाम्) तुल्य जन्मवालों के बीच (मध्यमेष्ठाः) पञ्चों में बैठनेवाला और (राज्ञाम्) क्षत्रियों के बीच में (विहव्यः) विशेष करके आवाहनयोग्य होकर (इह) यहाँ पर (दीदिहि) प्रकाशमान हो ॥४॥
भावार्थभाषाः - नीतिकुशल राजा धर्मकार्यों में स्फूर्ति रक्खे और हितकारियों के साथ हित करे और सदैव न्याययुक्त व्यवहार रक्खे, जिससे सब छोटे और बड़ों में प्रेम के साथ उसकी कीर्ति बढ़े ॥४॥ यजुर्वेद अध्याय २७ म० ५। में ऐसा पाठ है। क्ष॒त्रेणा॑ग्ने॒ स्वायुः सर॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धेये॑ यतस्व। स॒जा॒तानां॑ मध्यम॒स्था ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो॑ दीदिही॒ह ॥ (अग्ने) हे अग्नि के तुल्य तेजस्विन् विद्वन् ! (क्षत्रेण) राज्य वा धन के साथ (स्वायुः=सु–आयुः) सुन्दर जीवन (सम् रभस्व) अच्छे प्रकार आरम्भ कर। (अग्ने) हे तेजस्विन् ! (मित्रेण) मित्र वर्ग के साथ (मित्रधेये) मित्रों के धारण करने में (यतस्व) यत्न कर। (सजातानाम्) समान अवस्थावालों में (मध्यमस्थाः) मध्यस्थ (एधि) हो, (अग्ने) हे न्यायप्रकाशक ! (राज्ञाम्) राजाओं के बीच (विहव्यः+सन्) विशेषकर बुलानेयोग्य होकर (इह) यहाँ पर (दीदिहि) प्रकाशित हो ॥
टिप्पणी: ४–क्षत्रेण। गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः। उ० ४।१६७। इति क्षद गतिहिंसनयोः, रक्षणे च–त्र प्रत्ययः। बलेन, क्षत्रियत्वेन। धनेन–निघ० २।१०। अग्ने। तेजस्विन् विद्वन्। सम्–रभस्व। रभ राभस्ये=उत्सुकीभावे। संरम्भम् उत्साहं कुरु। मित्रेण। सुहृद्गणेन। मित्रधाः। मित्र+धाञ्–विच् मित्राणां पोषकः सन्। यतस्व। यती प्रयत्ने। प्रयत्नं कुरु। सजातानाम्। समानजन्मनाम्। तुल्यावस्थानाम्। मध्यमेष्ठाः। मध्ये भवो मध्यमः। मध्यान्मः पा० ४।३।८। इति मध्य–म। ष्ठा गतिनिवृत्तौ–विच्। वा क्विप्। तत्पुरुषे कृति बहुलम्। पा० ६।३।१४। इत्यलुक्। सुषामादिषु च। पा० ८।३।९८। इति षत्वम्। मध्यमेषु न्यायकारिषु प्रधानेषु स्थितः। राज्ञाम्। ईश्वराणां क्षत्रियाणां मध्ये। विहव्यः। ह्वः सम्प्रसारणं च न्यभ्युपविषु। पा० ३।३।७२। इति ह्वेञ् आह्वाने अप् संप्रसारणं च। ततः। भवे छन्दसि। पा० ४।४।११०। इति यत्। विविधमाह्वातव्यः। दीदिहि। म० १। दीप्यस्व। इह। अत्र ॥