204 बार पढ़ा गया
इन्द्र॑ ज॒ठरं॑ न॒व्यो न पृ॒णस्व॒ मधो॑र्दि॒वो न। अ॒स्य सु॒तस्य॒ स्व॑१र्णोप॑ त्वा॒ मदाः॑ सु॒वाचो॑ अगुः ॥
पद पाठ
इन्द्र । जठरम् । नव्य: । न । पृणस्व । मधो: । दिव: । न । अस्य । सुतस्य स्व: । न : । उप । त्वा । मदा: । सुऽवाच: । अगु: ॥५.२॥
अथर्ववेद » काण्ड:2» सूक्त:5» पर्यायः:0» मन्त्र:2
पण्डित क्षेमकरणदास त्रिवेदी
मनुष्य सदैव उन्नति का उपाय करता रहे।
पदार्थान्वयभाषाः - (इन्द्र) हे राजन् ! (नव्यः) नवीन [बहुत तृषित] के (न) समान, (दिवः) स्वर्ग के (न) सदृश (मधोः) मधुर रस से (जठरम्) अपने उदर को (पृणस्व) तृप्त कर। (अस्य) इस (सुतस्य) निचोड़ [तत्त्व] के (सुवाचः) सुन्दर वाणियों से युक्त (मदाः) आनन्द (स्वर्) स्वर्ग में (न) जैसे [वर्त्तमान] (त्वा) तुझको (उप अगुः) उपस्थित हुए हैं ॥२॥
भावार्थभाषाः - राजा विद्वानों के साथ संभाषण करके बड़ी प्रीति से नीति का सारांश ग्रहण करके आनन्द प्राप्त करे ॥२॥ इस मन्त्र में तीन (न) सदृशतावाची हैं और मन्त्र ३ में दो हैं ॥
टिप्पणी: २–जठरम्। जायते गर्भो मलं वा अस्मिन्निति जठरः। जनेररष्ठ च। उ० ५।३८। इति जन जननप्रादुर्भावयोः–अर, नस्य ठः। अथवा, जटति एकत्री भवति अन्नादिकमत्र। जट संहतौ–अर, टस्य ठः। उदरम्। नव्यः। नूयते स्तूयत इति। अचो यत्। पा० ३।१।९७। इति णु स्तुतौ–यत्। यद्वा, नव एव। स्वार्थे यत्। नूतनः। स्तुत्यः। न। उपमार्थे। अग्निर्न ये भ्राजसा, अग्निरिव–निरु० ३।१५। इव। यथा। पृणस्व। पृण तृप्तीकरणे। तर्पय। पूरय। मधोः। तृतीयार्थे षष्ठी। मधुररसेन। दिवः। स्वर्गस्य। अत्यानन्दस्य। सुतस्य। म० १। तत्त्वस्य। स्वर्। अव्ययं व्याहृतिविशेषश्च। अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति सु+ऋ गतौ–विच्। यद्वा। स्वृ शब्दोपतापयोः–विच्। स्वरादित्यो भवति सु अरणः सु ईरणः स्वृतो रसान् स्वृतो भासं ज्योतिषां स्वृतो भासेति वा–निरु० २।१४। स्वर्गे आनन्दविशेषे वर्त्तमानम्। मदाः। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु–अच्। आमोदाः। हर्षाः। सुवाचः। शोभना वाचा येषां ते। शोभनस्तुतियुक्ताः। अगुः। इण् गतौ–लुङ्। इणो गा लुङि पा० २।४।४९। गतवन्तः। प्राप्तवन्तः ॥
