आ नो॑ अग्ने सुम॒तिं सं॑भ॒लो ग॑मेदि॒मां कु॑मा॒रीं स॒ह नो॒ भगे॑न। जु॒ष्टा व॒रेषु॒ सम॑नेषु व॒ल्गुरो॒षं पत्या॒ सौभ॑गमस्त्व॒स्यै ॥
पद पाठ
आ । न: । अग्ने । सुऽमतिम् । सम्ऽभल: । गमेत् । इमाम् । कुमारीम् । सह । न: । भगेन । जुष्टा । वरेषु । समनेषु । वल्गु: । ओषम् । पत्या । सौभगम् । अस्तु । अस्यै ॥३६.१॥
अथर्ववेद » काण्ड:2» सूक्त:36» पर्यायः:0» मन्त्र:1
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
विवाह संस्कार का उपदेश।
पदार्थान्वयभाषाः - (अग्ने) अग्निवत् तेजस्वी राजन् (सम्भलः) यथाविधि सम्भाषण वा निरूपण करनेवाला वर (इमाम्) इस (सुमतिम्) सुन्दर बुद्धिवाली (कुमारीम्) कुमारी को (नः) हमारेलिये (भगेन सह+वर्त्तमानः सन्) ऐश्वर्य के साथ वर्त्तमान होकर (नः) हममें (आ=आगत्य) आकर (गमेत्) ले जावे। [इयम् कुमारी] [यह कन्या] (वरेषु) वर पक्षवालों में (जुष्टा) प्रिय और (समनेषु) साधु विचारवालों में (वल्गुः) मनोहर है। (अस्यै) इस [कन्या] के लिये (ओषम्) शीघ्र (पत्या) पति के साथ (सौभगम्) सुहागपन (अस्तु) होवे ॥१॥
भावार्थभाषाः - यहाँ (अग्नि) शब्द राजा के लिये है। माता-पिता आदि राजव्यवस्था के अनुसार योग्य आयु में गुणवती कन्या का विवाह गुणवान् वर से करें, जिससे वह कन्या पतिकुल में सबको प्रसन्न रक्खे और आप आनन्द से रहे। इसी आशय को राजप्रकरण में मनु महाराज ने अ० ७।१५२। में वर्णन किया है[कन्यानां संप्रदानं च कुमाराणां च रक्षणम्।] कन्याओं के नियमपूर्वक दान [विवाह] का और कुमारों की रक्षा का [राजा चिन्तन करे]। (ओषम्) के स्थान पर सायणभाष्य में [ऊषम्] है ॥१॥
टिप्पणी: १–नः। अस्मान्। अग्ने। हे अग्निवत्तेजस्विन् राजन्। सुमतिम्। सु+मन बोधे–क्तिन्। शोभनबुद्धियुक्ताम्। सम्भलः। सम्+भल परिभाषणहिंसादानेषु निरूपणे च–पचाद्यच्। सम्यग् भलते परिभाषते निरूपयति वा स सम्भलः। यथाविधि परिभाषकः यथाशास्त्रं निरूपकः। आ+गमेत्। द्विकर्मकः। आगत्य गमयेत् नयेत्। इमाम्। प्रसिद्धाम्। गुणवतीम्। कुमारीम्। कुमार क्रीडने–अच्। वयसि प्रथमे। पा० ४।१।२०। इति ङीप्। कन्याम्। सह। सहितः। नः। अस्मदर्थम्। भगेन। भजनीयेन गुणेन ऐश्वर्येण। जुष्टा। प्रीता सेविता। वरेषु। वृञ् वरणे–अप्। यद्वा वर ईप्से–घञ् श्रेष्ठेषु वरयितृषु, वरपक्षीयेषु। समनेषु। सम्+अन जीवने–घञ्। यद्वा। सम्+आङ्+णीञ् प्रापणे–अच्। सम्यग् अनिति आनीयते वा। समानं तुल्यं साधु वा। समानस्य सभावः। मन बोधे–पचाद्यच्। साधुमननयुक्तेषु। वल्गुः। वलेर्गुक् च। उ० १।१९। इति वल प्राणने–उ प्रत्ययः, गुक् आगमः। रुचिरा। मनोहरा। ओषम्। उष दाहे, वधे–घञ्। क्षिप्रम्। निघ० २।१५। पत्या। स्वामिना सह। सौभगम्। सुभग–अण्। सुभगत्वम्। अस्यै। कुमार्यै। अन्यद् गतम् ॥
