वांछित मन्त्र चुनें

अ॑दा॒न्यान्त्सो॑म॒पान्मन्य॑मानो य॒ज्ञस्य॑ वि॒द्वान्त्स॑म॒ये न धीरः॑। यदेन॑श्चकृ॒वान्ब॒द्ध ए॒ष तं वि॑श्वकर्म॒न्प्र मु॑ञ्चा स्व॒स्तये॑ ॥

मन्त्र उच्चारण
पद पाठ

अदान्यान् । सोमऽपान् । मन्यमान: । यज्ञस्य । विद्वान् । सम्ऽअये । न । धीर: । यत् । एन: । चकृवान् । बध्द: । एष: । तम् । विश्वकर्मन् । प्र । मुञ्च । स्वस्तये ॥३५.३॥

अथर्ववेद » काण्ड:2» सूक्त:35» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

पाप के त्याग से सुखलाभ है, इसका उपदेश।

पदार्थान्वयभाषाः - (अदान्यान्) दान के अयोग्य पुरुषों को (सोमपान्) अमृतपान करनेवाले (मन्यमानः) मानता हुआ पुरुष, (यज्ञस्य) शुभ कर्म का (विद्वान्) जाननेवाला और (समये) समय पर (धीरः) धीर (न) नहीं होता। (एषः) इस पुरुष ने (बद्धः) [अज्ञान में] बन्ध होकर (यत्) जो (एमः) पाप (चकृवान्) किया है, (विश्वकर्मन्) हे संसार के रचनेवाले परमेश्वर ! (तम्) उस पुरुष को (स्वस्तये) आनन्द भोगने के लिये (प्र मुञ्च) मुक्त कर दे ॥३॥
भावार्थभाषाः - मनुष्य अविवेक के कारण मूढ़ होकर अपनी और संसार की हानि कर डालता है। वह पुरुष अपने प्रमाद पर पश्चात्ताप करके और पाप कर्म छोड़कर ईश्वराज्ञा का पालन करके आनन्द भोगे ॥३॥
टिप्पणी: ३–अदान्यान्। छन्दसि च। पा० ५।१।६७। इति अदान–य प्रत्ययः। दानानर्हान्। सोमपान्। गापोष्टक् च। पा० ३।२।८। सोम+पा पाने–टक्। अमृतपानशीलान् पण्डितान्। मन्यमानः। मन बोधे दिवादिः–शानच्। जानन् सन्। यज्ञस्य। अ० १।९।४। प्रशस्यकर्मणः। विद्वान्। विदेः शतुर्वसुः। पा० ७।१।३६। इति विद ज्ञाने–शतृ, वसुरादेशः प्राज्ञः। पण्डितः। समये। सम्+इण् गतौ–पचाद्यच्। उचितकाले, अवसरे। न। निषिधे। धीरः। सुसूधाञ्गृधिभ्यः क्रन्। उ० २।२४। इति धाञ् धारणपोषणयोः–क्रन्। घुमास्थागापा०। पा० ६।४।६६। इति ईत्वम्। यद्वा। धीः प्रज्ञा कर्म वा, रो मत्वर्थीयः। यद्वा। कर्मण्यण्। पा० ३।२।१। इति धी+ईर प्रेरणे–अण्। धियम् ईरयतीति। यद्वा। धी+रा–क। धियं राति ददाति गृह्णातीति वा। मेधावी–निघ० ३।१५। धैर्यवान्। पण्डितः। एनः। म० २। अपराधम्। चकृवान्। कृञ्–लिटः क्वसुः। कृतवान्। बद्धः। बध्यते स्म। बन्ध–क्त। बन्धनयुक्तः। विश्वकर्मन्। हे सर्वकृत्। प्र+मुञ्च। प्रमोचय। स्वस्तये। अ० १।३०।२। क्षेमाय। कुशलाय ॥