वांछित मन्त्र चुनें

आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोरु॒दरा॒दधि॑। यक्ष्मं॑ कु॒क्षिभ्या॑म्प्ला॒शेर्नाभ्या॒ वि वृ॑हामि ते ॥

मन्त्र उच्चारण
पद पाठ

आन्त्रेभ्य: । ते । गुदाभ्य: । वनिष्ठो: । उदरात् । अधि । यक्ष्मम् । कुक्षिऽभ्याम् । प्लाशे: । नाभ्या: । वि । वृहामि । ते ॥३३.४॥

अथर्ववेद » काण्ड:2» सूक्त:33» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

शारीरिक विषय में शरीररक्षा।

पदार्थान्वयभाषाः - (ते) तेरी (आन्त्रेभ्यः) आँतों से, (गुदाभ्यः) गुदा की नाड़ियों से, (वनिष्ठोः) वनिष्ठु [भीतरी मलस्थान] से, (उदरात् अधि) उदर में से और (ते) तेरी (कुक्षिभ्याम्) दोनों कोखों से, (प्लाशेः) कोख में की थैली से और (नाभ्याः) नाभि से (यक्ष्मम्) क्षयी रोग को (वि वृहामि) मैं उखाड़े देता हूँ ॥४॥
भावार्थभाषाः - इस मन्त्र में उदर के अवयवों का वर्णन है। भावार्थ मन्त्र १ के समान है ॥४॥
टिप्पणी: ४–आन्त्रेभ्यः। अ० १।३।६। भ्रस्जिगमिनमि०। उ० ४।१६०। इति अति बन्धने–ष्ट्रन्। उदरनाडीविशेषेभ्यः। पुरीतद्भ्यः। गुदाभ्यः। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति गुद खेलने–क। टाप्। गोदते खेलति चलति अपानवायुर्यया। मलत्यागनाडीभ्यः। वनिष्ठोः। वन संभक्तौ–ओणादिक इष्ठुप् प्रत्ययः। स्थूलान्त्रात्। उदरात्। उदि दृणातेरलचौ पूर्वपदान्त्यलोपश्च। उ० ५।१९। इति उद्+दृ विदारे–अच्। उपसर्गस्य दलोपः। नाभिस्तनयोर्मध्यभागात्। जठरात्। कुक्षिभ्याम्। प्लुषिकुषिशुषिभ्यः क्सिः। उ० ३।१५५। इति कुष निष्कर्षे–क्सि। दक्षिणोत्तरोदरभागाभ्याम्। प्लाशेः। वसिवपियजि०। उ० ४।१२५। इति प्र+अशू व्याप्तौ–इञ्, रस्य लः। बहुच्छिद्रात् मलपात्रात्–इति सायणः [Mesentery–Griffith.]। शिश्नात्, यथा महीधरः–यजु० १९।८७। कुक्षिस्थनाडीविशेषात्। नाभ्याः। अ० १।१३।३। उदरावर्तात्। नाभिमण्डलात्। अन्यद् गतम् ॥