यथे॒दं भूम्या॒ अधि॒ तृणं॒ वातो॑ मथा॒यति॑। ए॒वा म॑थ्नामि ते॒ मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥
पद पाठ
यथा । इदम् । भूम्या: । अधि । तृणम् । वात: । मथायति । एव । मथ्नामि । ते । मन: । यथा । माम् । कामिनी । अस: । यथा । मत् । न । अपऽगा: । अस: ॥३०.१॥
अथर्ववेद » काण्ड:2» सूक्त:30» पर्यायः:0» मन्त्र:1
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
गृहस्थाश्रम में प्रवेश करने के लिये उपदेश।
पदार्थान्वयभाषाः - (यथा) जिस प्रकार (वातः) वायु (भूम्याः) भूमि के (अधि) ऊपर (इदम्) इस (तृणम्) तृण को (मथायति) चलाता है। (एव) वैसे ही (ते) तेरे (मनः) मन को (मथ्नामि) मैं चलाता हूँ, (यथा) जिससे तू (माम् कामिनी) मेरी कामनावाली (असः) होवे और (यथा) जिससे तू (मत्) मुझसे (अपगाः) वियोग करनेवाली (न) न (असः) होवे ॥१॥
भावार्थभाषाः - विद्यासमाप्ति पर ब्रह्मचारी अपने अनुरूप गुणवती कन्या को ढूँढ़े और कन्या भी अपने सदृश वर ढूँढ़े। इस प्रकार विवाह होने से वियोग न होकर आपस में प्रेम बढ़ता और आनन्द मिलता है ॥१॥ (भूम्याः) पद के स्थान पर सायणभाष्य में (भूम्याम्) है। इस मन्त्र का अन्तिम भाग (यथामां–मन्नापगा असः) अ० १।३४।५ और ६।८।१–३। में भी है ॥
टिप्पणी: १–यथा। येन प्रकारेण। इदम्। परिदृश्यमानम्। भूम्याः। अ० १।११।२। पृथिव्याः। अधि। उपरि। तृणम्। तृहेः क्नो हलोपश्च। उ० ५।८। इति तृह हिंसायाम्–क्त, हलोपः। तृह्यते हन्यते भक्ष्यते। गवादिभिः। गवादिभक्ष्यम्। वातः। अ० १।११।६। वायुः। मथायति। छन्दसि शायजपि। पा० ३।१।८४। इति बाहुलकात् मथ विलोडने–शायच्। विलोडयति। भ्रामयति। एव। एवम्। तथा। मथ्नामि। मन्थ विलोडने। विलोडयामि। ते। तव। मनः। मन–असुन्। चित्तम्। यथा। यस्मात् कारणात्। माम्। कामयमानं वरम्। कामिनी। कमेर्णिजन्ताद् औणादिक इनि प्रत्ययः। ङीप्। भविष्यति गम्यादयः। पा० ३।३।३। इति भविष्यदर्थत्वम्। अकेनोर्भविष्यदाधमर्ण्ययोः। पा० २।३।७०। इति कर्मणि षष्ठी प्रतिषेधत्वात् (माम्) इति द्वितीया। काङ्क्षिष्यन्ती। असः। भवेः। मत्। मत्तः सकाशात्। न। निषेधे। अपगाः। जनसनखनक्रमगमो विट्। पा० ३।२।६७। इति गमेर्विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इति आत्त्वम्। अपसृत्य गन्त्री। वियोगं प्राप्ता ॥
