वांछित मन्त्र चुनें

द्यौष्ट्वा॑ पि॒ता पृ॑थि॒वी मा॒ता ज॒रामृ॑त्युं कृणुतां संविदा॒ने। यथा॒ जीवा॒ अदि॑तेरु॒पस्थे॑ प्राणापा॒नाभ्यां॑ गुपि॒तः श॒तं हिमाः॑ ॥

मन्त्र उच्चारण
पद पाठ

द्यौ: । त्वा । पिता । पृथिवी । माता । जराऽमृत्युम् । कृणुताम् । संविदाने इति सम्ऽविदाने । यथा । जीवा: । अदिते: । उप‍स्थे । प्राणापानाभ्याम् । गुपित: । शतम् । हिमा: ॥२८.४॥

अथर्ववेद » काण्ड:2» सूक्त:28» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

बुद्धि से विवाद करे, इसका उपदेश।

पदार्थान्वयभाषाः - (पिता) पिता [के समान रक्षक] (द्यौः) सूर्यलोक और (माता) [के समान प्रीति करनेवाली] (पृथिवी) पृथिवीलोक, (संविदाने) दोनों मिले हुए, (त्वा) तुझको (जरामृत्युम्=जरा–अमृत्युं जरा–मृत्युं वा) स्तुति के साथ अमर, अथवा, स्तुति वा बुढ़ापे से मृत्युवाला (कृणुताम्) करें। (यथा) जिससे (अदितेः) अखण्ड परमेश्वर [अथवा अदीन प्रकृति, वा पृथिवी] की (उपस्थे) गोद में (प्राणापानाभ्याम्) प्राण और अपान से (गुपितः) रक्षा किया हुआ तू (शतम्) सौ (हिमाः) हेमन्त ऋतुओं तक (जीवाः) जीता रहे ॥४॥
भावार्थभाषाः - पुरुषार्थी पुरुष प्रबन्ध रक्खे कि सूर्य का तेज और आकर्षण आदि सामर्थ्य और पृथिवी की अन्न आदि की उत्पादनादि शक्ति और अन्य सब पदार्थ अनुकूल रहें, जैसे माता-पिता सन्तानों पर प्रीति रखते हैं, जिससे वह पुरुष परमेश्वर के अनुग्रह से पृथिवी पर यशस्वी होकर पूर्ण आयु भोगे ॥४॥
टिप्पणी: ४–द्यौः। अ० २।१२।६। द्योतमानः सूर्यः। त्वा। त्वां प्राणिनम्। पिता। अ० १।२।१। रक्षकः। जनकः। तद्वदुपकारकः। पृथिवी। अ० १।२।१। प्रख्याता भूमिः। माता। अ० १।२।१। मानकर्त्री, जननी। जरामृत्युम्। व्याख्यातं म० २। यशस्विनं कृणुताम्। कुरुताम्। संविदाने। मं० २। ऐक्यमते प्राप्ते। यथा। यस्मात् कारणात्। जीवाः। जीव प्राणधारणे–लेटि आडागमः। त्वं जीवेः। प्राणान् धरेः। अदितेः। कृत्यल्युटो बहुलम्। पा० ३।३।११३। इति दीङ् क्षये, दो अवखण्डने, दाप् लवने–क्तिन्। द्यतिस्यतिमास्थामित्ति किति। पा० ७।४।४०। इति इत्वम्। दीङ् पक्षे ह्रस्वत्वं, नञ्समासः। अदितिः पृथिवी–निघ० १।१। वाक्–निघ० १।११। गौः–निघ० २।११। अदीना देवमाता–निरु० ४।२२। मध्यस्थानदेवतासुप्रथमगामिनी– निरु० ११।२२। अक्षीणस्य अखण्डस्य वा परमेश्वरस्य, अथवा अदीनाया देवमातुः, मनुष्यसूर्यादिदिव्यपदार्थानां जनन्याः प्रकृतेः पृथिव्या वा। उपस्थे। क्रोडे। उत्सङ्गे। प्राणापानाभ्याम्। म० ३। श्वासनिःश्वासाभ्याम्। गुपितः। गुपू रक्षणे–क्त। रक्षितः। शतम्। अपरिमिताः। हिमाः। हन्तेर्हि च। उ० १।१४७। इति हन हिंसागत्योः–मक्। अर्शआद्यच्–टाप्। हिमं तुषारोऽस्ति यस्याम्। हेमन्तान् संवत्सरान्। कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया ॥