वांछित मन्त्र चुनें
247 बार पढ़ा गया

याः क्ल॒न्दास्तमि॑षीचयो॒ऽक्षका॑मा मनो॒मुहः॑। ताभ्यो॑ गन्ध॒र्वभ्यो॑ ऽप्स॒राभ्यो॑ऽकरं॒ नमः॑ ॥

मन्त्र उच्चारण
पद पाठ

या: । क्लन्दा: । तमिषीचय: । अक्षऽकामा: । मन:ऽमुह:। ताभ्य: । गन्धर्वऽपत्नीभ्य: । अप्सराभ्य: । अकरम् । नम: ॥२.५॥

अथर्ववेद » काण्ड:2» सूक्त:2» पर्यायः:0» मन्त्र:5


पण्डित क्षेमकरणदास त्रिवेदी

परमेश्वर सर्वशक्तिमान् है, इसका उपदेश।

पदार्थान्वयभाषाः - (याः) जो (क्लन्दाः) आवाहन करनेहारी, (तमिषीचयः) इच्छा की सीचने [पूरा, करने] हारी, (अक्षकामाः) अवहारों में कामना करानेवाली, (मनोमुहः) मन को आश्चर्य में करनेवाली हैं। (ताभ्यः) उन (गन्धर्वपत्नीभ्यः) गन्धर्व की पत्नी [परमेश्वर की रक्षा में रहनेवाली] (अप्सराभ्यः) अप्सराओं [प्राणियों में रहनेवाली ईश्वरशक्तियों] को मैंने (नमः) नमस्कार (अकरम्) किया है ॥५॥
भावार्थभाषाः - इस मन्त्र में भी अप्सराओं अर्थात् शक्तियों से उनके स्वामी परमेश्वर का ग्रहण है। वह परमेश्वर दुष्टों पर गरजता और शिष्टों का आवाहन करता, अनन्त बलवान्, उत्तम कर्मों में प्रीति करानेवाला और मनोहरस्वभाव है, सब जड़ और चेतन नमस्कार करके उस सर्वशक्तिमान् की आज्ञा मानते और आनन्दित होते हैं ॥५॥
टिप्पणी: ५–क्लन्दाः। क्लदि आह्वाने रोदने च–पचाद्यच्। टाप्। आवाहनशीलाः। तमिषीचयः। तमि–षिचयः। सर्वधातुभ्य इन्। उ० ४।११८। इति तमु इच्छायां खेदे च–इन्। इगुपधात् कित्। उ० ४।१२०। इति षिच सेचने–इन्, किति ह्रस्वः। छान्दसो दीर्घः। तमिम् इच्छां सिञ्चन्ति तास्तमिसिचयः। इच्छापूरयित्र्यः। अक्षकामाः। अक्षू व्याप्तौ, संहतौ–पचाद्यच्। यद्वा। अशेर्देवने। उ० ३।६५। इति अशू व्याप्तौ–स प्रत्ययः। अक्षो व्यवहारः। यथा, अक्षदर्शकः, अक्षदृक्=व्यवहारनिर्णेता, न्यायकर्त्ता। काम्यतेऽसौ। कमु स्पृहायाम्–कर्मणि घञ्। अक्षेषु व्यवहारेषु सत्कर्मसु कामोऽभिलाषो याभ्यस्तास्तथाभूताः। व्यवहारोत्साहिन्यः। मनोमुहः। मनस्+मुह वैचित्ये–क्विप्। मनसः, चित्तस्य मोहयित्र्यः, आश्चर्ये विस्मये कर्त्र्यः। गन्धर्वपत्नीभ्यः। विभाषा सपूर्वस्य पा० ४।१।३४। इति गन्धर्व+पति–नकारङीपौ। गन्धर्वः पूर्वोक्तः परमात्मा पतिः, रक्षकः, स्वामी यासां ताभ्यः। गन्धर्वेण परमेश्वरेण रक्षिताभ्यः। अप्सराभ्यः। मन्त्रे ३। आकाशप्राणादिषु वर्त्तमानाभ्यः। अकरम्। डुकृञ् करणे–लुङ्। कृमृदृरुहिभ्यश्छन्दसि। पा० ३।१।५९। इति च्लेः अङ् आदेशः। ऋदृशोऽङि गुणः। पा० ७।४।१६। इति गुणः। अहं कृतवान्। नमः। सत्कारम् ॥