261 बार पढ़ा गया
अभ्रि॑ये॒ दिद्यु॒न्नक्ष॑त्रिये॒ या वि॒श्वाव॑सुं गन्ध॒र्वं सच॑ध्वे। ताभ्यो॑ वो देवी॒र्नम॒ इत्कृ॑णोमि ॥
पद पाठ
अभ्रिये । दिद्युत् । नक्षत्रिये । या: । विश्वऽवसुम् । गन्धर्वम् । सचध्वे । ताभ्य: । व: । देवी: । नम: । इत् । कृणोमि ॥२.४॥
अथर्ववेद » काण्ड:2» सूक्त:2» पर्यायः:0» मन्त्र:4
पण्डित क्षेमकरणदास त्रिवेदी
परमेश्वर सर्वशक्तिमान् है, इसका उपदेश।
पदार्थान्वयभाषाः - (अभ्रिये) अभ्र [मेघ] में [रहनेवाली], (दिद्युत्=०–ति) बिजुली में [वर्तमान] और (नक्षत्रिये) नक्षत्रों में [रहनेवाली] (याः) जो तुम सब (विश्वावसुम्) सब प्रकार के धनों के वा सब निवासस्थानों [लोकों] के स्वामी (गन्धर्वम्) गन्धर्व [पृथिवी, सूर्य वा वेदवाणी के धारण करनेवाले परमेश्वर] की (सचध्वे) सेवा करती हो। (देवीः=हे देव्यः !) हे देवियो ! [दिव्य अर्थात् अद्भुत, गुणवालियों !] (ताः) उन (वः) तुमको (नमः) नमस्कार (इत्) अवश्य (कृणोमि) मैं करता हूँ ॥४॥
भावार्थभाषाः - यहाँ शक्तियों से शक्तिमान् परमेश्वर का ग्रहण है। संसार के प्रत्येक पदार्थ के अवलोकन से देखा जाता है कि ये अप्सराएँ [परमेश्वर की अनन्त और अद्भुतशक्तियाँ] परमेश्वर के वशीभूत होकर सब सृष्टि की उत्पत्ति, स्थिति और अन्त का कारण हैं। उन शक्तियों अर्थात् उनके स्वामी जगदीश्वर को बड़े-छोटे प्राणी नम्रता से स्वीकार करते और उपकारों को विचारकर उपकारी बनाकर आनन्द भोगते हैं ॥४॥
टिप्पणी: ४–अभ्रिये–नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। पा० ३।१।१३। इति अभ्र गतौ–पचाद्यच्। अथवा। अपो बिभर्तीति। अप्+भृ–क। अभ्रम्=मेघः–निघ० १।१०। समुद्राभ्राद् घः। पा० ४।४।११८। इति अभ्र–भवे घ प्रत्ययः। तस्य इच् आदेशः। मेघेषु भवे स्थाने मेघस्य मण्डले वर्त्तमानाः। दिद्युत्। द्युतिगमिजुहोतीनां द्वे च। वा०। पा० ३।२।१७८। इति द्युत दीप्तौ–क्विप्। द्वित्वं च। द्युतिस्वाप्योः सम्प्रसारणम्। पा० ७।४।६७। इत्यभ्यासस्य सम्प्रसारणम्। अथवा दो अवखण्डे–क्विप्। पृषोदरादिरूपम्। द्यति पदार्थान्। सुपां सुलुक्०। पा० ७।१।३९। इति सप्तम्या लुक्। द्योतमाने विद्युन्मण्डले। नक्षत्रिये। नक्षत्राद् घः। पा० ४।४।१४१। इति नक्षत्र–घ प्रत्ययः। नक्षत्रेषु भवे लोके वर्त्तमानाः। याः। अप्सराः, यूयम्। विश्वावसुम्। विश्वस्य वसुराटोः। पा० ६।३।१२८। इति पूर्वपदस्य दीर्घः। बहुव्रीहौ विश्वं संज्ञायाम्। पा० ६।२।१०६। इति पूर्वपदस्य विश्वशब्दस्य अन्तोदात्तत्वम् ॥ विश्वानि वसूनि यस्मिन् सः। सर्वधनसम्पन्नम्। यद्वा। सर्वे वसवो निवासा लोका यस्मिन् सः। सर्वाश्रयम्। सचध्वे। षच सेचने सेवने च, आत्मनेपदम्। सेवध्वे। देवीः। वा छन्दसि। पा० ६।१।१०६। इति पूर्वसवर्णदीर्घः। देव्यो द्योतमानाः। कृणोमि। धिन्विकृण्व्योर च। पा० ३।१।८०। इति कृवि हिंसाकरणयोः–उ प्रत्ययः, अकारश्चान्तादेशः। करोमि। अन्यत् सुगमम् ॥
