वांछित मन्त्र चुनें

अ॒सौ यो अ॑ध॒राद्गृ॒हस्तत्र॑ सन्त्वरा॒य्यः॑। तत्र॒ सेदि॒र्न्यु॑च्यतु॒ सर्वा॑श्च यातुधा॒न्यः॑ ॥

मन्त्र उच्चारण
पद पाठ

असौ । य: । अधरात् । गृह: । तत्र । सन्तु । अराय्य: । तत्र । सेदि: । नि । उच्यतु । सर्वा: । च । यातुऽधान्य: ॥१४.३॥

अथर्ववेद » काण्ड:2» सूक्त:14» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

निर्धनता मनुष्यों को प्रयत्न से नष्ट करनी चाहिये।

पदार्थान्वयभाषाः - (असौ) वह (यः) जो (गृहः) घर (अधरात्) नीचे की ओर है, (तत्र) वहाँ पर (अराय्यः) निर्धनतावाली [विपत्तियाँ] (सन्तु) रहें। (तत्र) वहाँ ही (सेदिः) महामारी आदि क्लेश (नि+उच्यतु) नित्य निवास करे, (च) और (सर्वाः) सब (यातुधान्यः) पीड़ा देनेवाली क्रियाएँ भी ॥३॥
भावार्थभाषाः - जैसे राजा चौर आदि दुष्टों को पकड़कर कारागार में रखता है, ऐसे ही मनुष्यों को प्रयत्नपूर्वक निर्धनता, दुर्भिक्षता और दुःखदायी रोगों को हटाकर आनन्दित रहना चाहिये ॥३॥
टिप्पणी: ३–अधरात्। अधस्–आति। अधोभागे। नीचस्थाने। गृहः। म० २। गेहम्। अराय्याः। रा दानग्रहणयोः–घञ्। आतो युक् चिण्कृतोः। पा० ७।३।३३। इति युग् आगमः। राति ददातीति रायो धनम्। न रायः, अरायः, अधनम्। केशाद्वोऽन्यतरस्याम्। पा० ५।२।१०९। इत्यत्र वार्त्तिकम्। छन्दसीवनिपौ च वक्तव्यौ। इति मत्वर्थीय ईकारः। अरायः, अधनं यस्याः सा अरायी। अलक्ष्म्यः। विपत्तयः। तत्र। अधोदेशे। सेदिः। आदृगमहनजनः किकिनौ लिट् च। पा० ३।२।१७१। इत्यत्र वार्त्तिकम्। किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्। इति षद्लृ विशरणगत्यवसादनेषु–कि प्रत्ययः। तस्य लिड्वद्भावाद् द्विर्वचने एत्वाभ्यासलोपौ। निर्ऋतिः। विषादः। न्युच्यतु। उच समवाये दिवादिः। नित्यं समवैतु। सर्वाः। निखिलाः। यातुधान्यः। अ० १।७।१। यत ताडने–उण्+धाञ्–युच्, ङीप्। यातनाप्रदाः पीडादात्र्यः क्रियाः। (न्युच्यन्तु) इति शेषः ॥