वांछित मन्त्र चुनें

आ द॑धामि ते प॒दं समि॑द्धे जा॒तवे॑दसि। अ॒ग्निः शरी॑रं वेवे॒ष्ट्वसुं॒ वागपि॑ गच्छतु ॥

मन्त्र उच्चारण
पद पाठ

आ । दधामि । ते । पदम् । सम्ऽइध्दे । जातऽवेदसि । अग्नि: । शरीरम् । वेवेष्टु । असुम् । वाक् । अपि । गच्छतु ॥१२.८॥

अथर्ववेद » काण्ड:2» सूक्त:12» पर्यायः:0» मन्त्र:8


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सबकी रक्षा के लिये उपदेश।

पदार्थान्वयभाषाः - [हे दुराचारी] (ते) तेरे (पदम्) पद [वा स्थान] को (समिद्धे) जलती हुई (जातवेदसि) वेदना अर्थात् पीड़ा देनेवाली अग्नि में (आ+दधामि) डाले देता हूँ। (अग्निः) अग्नि (शरीरम्) [तेरे] शरीर में (वेवेष्टु) प्रवेश करे और (वाक्) वाणी (अपि) भी (असुम्) [अपने] प्राण [अंश] में (गच्छतु) जावे ॥८॥
भावार्थभाषाः - दुराचारी मनुष्य राजदण्ड और ईश्वरनियम से ऐसा शारीरिक और मानसिक ताप पाता है, जैसे कोई प्रज्वलित अग्नि में जलकर कष्ट पाता है ॥८॥
टिप्पणी: ८–आ। समन्तात्। दधामि। स्थापयामि। ते। तव। त्वदीयम्। पदम्। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। पा० ३।१।१३४। इति पद गत्याम्–अच्। व्यवसायम्। स्थानम्। पादम्। समिद्धे। सम्+इन्धी दीप्तौ–क्त। प्रदीप्ते। जातवेदसि। अ० १।७।२। जात+विद वेदनायां, ज्ञाने, सत्तायाम्, यद्वा विद्लृ लाभे–असुन्। जातं वेदो वेदना दुःखं यस्मात् स जातवेदाः, तस्मिन् पीडाजनके अग्नौ। अग्निः। पावकः। शरीरम्। कॄशॄपॄकटिपटिशौटिभ्य ईरन्। उ० ४।३०। इति शॄ हिंसायाम्–ईरन्। शीर्य्यते हिंस्यते रोगादिना यत्। गात्रम्। कायम्। वेवेष्टु। विष्लृ व्याप्तौ। जुहोत्यादित्वात् शपः श्लुः। णिजां त्रयाणां गुणः श्लौ। पा० ७।४।७५। प्रविशतु। असुम्। शॄस्वृस्निहित्रप्यसिवसि। उ० १।१०। इति असु क्षेपणे–उ प्रत्ययः। असुरिति प्राणनामास्तः शरीरे भवति–निरु० ३।८। प्राणम्। स्वकारणम्। वाक्। क्विप् वचिप्रच्छिश्रि०। उ० २।५७। इति वच कथने–क्विप्, दीर्घोऽसम्प्रसारणं च। वागिन्द्रियम्। गच्छतु। प्राप्नोतु ॥