इ॒दमि॑न्द्र शृणुहि सोमप॒ यत्त्वा॑ हृ॒दा शोच॑ता॒ जोह॑वीमि। वृ॒श्चामि॒ तं कुलि॑शेनेव वृ॒क्षं यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑ ॥
पद पाठ
इदम् । इन्द्र । शृणुहि । सोमऽप । यत् । त्वा । हृदा । शोचता । जोहवीमि । वृश्चामि । तम् । कुलिशेनऽइव । वृक्षम् । य: । अस्माकम् । मन: । इदम् । हिनस्ति ॥१२.३॥
अथर्ववेद » काण्ड:2» सूक्त:12» पर्यायः:0» मन्त्र:3
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सबकी रक्षा के लिये उपदेश।
पदार्थान्वयभाषाः - (सोमप) हे ऐश्वर्य के रक्षक [वा अमृत पीनेवाले वा अमृत की रक्षा करनेवाले] (इन्द्र) राजन् ! परमेश्वर ! (इदम्) इस [वचन] को (शृणुहि) तू सुन (यत्) क्योंकि (शोचता) शोक करते हुए (हृदा) हृदय से (त्वा) तुझे (जीहवीमि) आवाहन करता रहता हूँ। (इव) जैसे (कुलिशेन) कुठारी से (वृक्षम्) वृक्ष को [काटते हैं, वैसे ही] मैं (तम्) उस [मनुष्य] को (वृश्चामि) काट डालूँ (यः) जो (अस्माकम्) हमारे (इदम्) इस [सन्मार्ग में लगे हुए] (मनः) मन को (हिनस्ति) सतावे ॥३॥
भावार्थभाषाः - जैसे प्रजागण दुष्टों से पीड़ित होकर राजा के सहाय से उद्धार पाते हैं, वैसे ही बलवान् राजा उस परम पिता जगदीश्वर के आवाहन से पुरुषार्थ करके अपने कष्टों से छुटकारा पावे ॥३॥
टिप्पणी: ३–इदम् म० २। वक्ष्यमाणं वाक्यम्। इन्द्र। हे परमैश्वर्यवन् परमात्मन् ! शृणुहि। उतश्च प्रत्ययादित्यत्र छन्दसि। वेति वक्तव्यम्। वा० पा० ६।४।१०६। इति हेरलुक्। शृणु। सोमप। अर्त्तिस्तुसुहुसृधृक्षि०। उ० १।१४०। इति षु गतौ। ऐश्वर्यप्रसवयोश्च–मन्। सवति ऐश्वर्यहेतुर्भवतीति सोमः। आतोऽनुपसर्गे कः। पा० ३।२।३। इति सोम+पा रक्षणे पाने वा–क। हे सोमस्य ऐश्वर्यस्य रक्षक ! यद्वा। अमृतस्य मोक्षसुखस्य पानशील रक्षक वा ! यत्। यतः। यस्मात् कारणात्। त्वा। त्वामिन्द्रम्। हृदा। हृञ् हरणे–क्विप्। तुक् च। हृदयेन। मनसा। शोचता। शुच शोके–शतृ। शोकार्तेन। दुःखितेन। जोहवीमि। ह्वेञ् आह्वाने–यङ्लुगन्तात् लडुत्तमैकवचने। ह्वः सम्प्रसारणम् पा० ६।१।३२। अभ्यस्तस्य च। पा० ६।१।३३। इति सम्प्रसारणम्। पुनः पुनराह्वयामि। वृश्चामि। ओव्रश्चू छेदने। तुदादित्वात् शः। छिनद्मि। कुलिशेन। कुल बन्धे संहतौ च–इन्, किच्च। कुलिः=हस्तः। यद्वा। कुल अस्त्यर्थे इनि। कुली पर्वतः। कुलौ हरते शेते वर्तते, शीङ् शयने–ड। यद्वा। कुलिनं संहतिवन्तं पर्वतं पर्ववन्तम् अतिदृढं श्यति, शो तनूकरणे–ड। वज्रेण। वृक्षम्। स्नुव्रश्चिकृत्यृषिभ्यः कित्। उ० ३।६६। इति ओव्रश्चू छेदने–स प्रत्ययः। स च कित्। यद्वा। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति वृक्ष स्वीकरणे–कः। वृश्चति परिश्रमम्। यद्वा। वृक्षते स्वीकरोति श्रान्तं जनं स वृक्षः। विटपम्। पादपम्। अन्यद् व्याख्यातम् ॥
