वांछित मन्त्र चुनें
184 बार पढ़ा गया

इ॒दं दे॑वाः शृणुत॒ ये य॒ज्ञिया॒ स्थ भ॒रद्वा॑जो॒ मह्य॑मु॒क्थानि॑ शंसति। पाशे॒ स ब॒द्धो दु॑रि॒ते नि यु॑ज्यतां॒ यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑ ॥

मन्त्र उच्चारण
पद पाठ

इदम् । देवा: । शृणुत । ये । यज्ञिया: । स्थ । भरत्-वाज: । मह्यम् । उक्थानि ।शंसति । पाशे । स: । बध्द: । दु:ऽइते । नि । युज्यताम् । य: । अस्माकम् । मन: । इदम् । हिनस्ति ॥१२.२॥

अथर्ववेद » काण्ड:2» सूक्त:12» पर्यायः:0» मन्त्र:2


पण्डित क्षेमकरणदास त्रिवेदी

सबकी रक्षा के लिये उपदेश।

पदार्थान्वयभाषाः - (देवाः) हे दिव्य गुणवाले महात्माओ ! (ये) जो तुम (यज्ञियाः) सत्कारयोग्य (स्थ) हो, (इदम्) यह (शृणुत) सुनो, (भरद्वाजः) पुष्टिकारक अन्न वा बल वा विज्ञान का धारण करनेवाला, परमेश्वर (मह्यम्) मुझ को (उक्थानि) वेदवचनों का (शंसति) उपदेश करता है। (सः) वह मनुष्य (दुरिते) बड़े कठिन (पाशे) फाँस में (बद्धः) बँधा हुआ (नि+युज्यताम्) आज्ञा में रहे, (यः) जो मनुष्य (अस्माकम्) हमारे (इदम्) इस [सन्मार्ग में लगे हुए] (मनः) मन को (हिनस्ति) सतावे ॥२॥
भावार्थभाषाः - विद्वानों को परस्पर मिलकर ब्रह्मविचार करना चाहिये। वह सर्वशक्तिमान् दुष्कर्मियों को क्लेश और सुकर्मियों को आनन्द देता है। उस सर्वपोषक ने यह आज्ञा वेद द्वारा मनुष्यमात्र के लिये प्रकाशित की है ॥२॥
टिप्पणी: २–इदम्। इन्देः कमिन्नलोपश्च। उ० ४।१५७। इति इदि परमैश्वर्ये–कनिन्। पुरोवर्त्ति वक्ष्यमाणं वा वाक्यम्। देवाः। दीप्यमानाः। दातारः। विद्वांसः। शृणुत। श्रु श्रवणे। आकर्णयत। यज्ञियाः। यज्ञर्त्विग्भ्यां घखञौ। पा० ५।१।५७। इति यज्ञ–घ प्रत्ययः। यज्ञार्हाः। पूजनीयाः। स्थ। भवथ। भरद्वाजः। भरत्+वाजः। भृञ् धारणपोषणयोः–शतृ। अकर्त्तरि च कारके सञ्ज्ञायाम्। पा० ३।३।१९। इति वज गतौ–घञ्, वाजः, अन्नम्–निघ० २।७। बलम्–निघ० २।९। भरद् देवानां पोषकं वाजो हविर्लक्षणम् अन्नं यस्य सोयं भरद्वाजः–इति सायणः। बिभर्तीति भरन् वाजमन्नं यः स भरद्वाजोऽन्नधर्त्ता–इति महीधरो यजुर्वेदभाष्ये १३।५५। वाजोऽन्नं विज्ञानं वा बिभर्त्ति येन–इति दयानन्दसरस्वती–तत्र यजुर्वेदभाष्ये। अन्नस्य बलस्य विज्ञानस्य वा भर्त्ता धारकः पोषको वा परमेश्वरः। मह्यम्। मदर्थम्। उक्थानि। पातॄतुदिवचिरिचिसिचिभ्यस्थक्। उ० २।७। इति वच कथने–थक्। शास्त्राणि। शंसति। शंसु हिंसास्तुत्योः कथने च। कथयति, उपदिशति। पाशे। अ० २।८।१। बन्धने। बद्धः। बन्ध बन्धे–क्त। निरुद्धः। निगडितः। दुरिते। इण्–क्त। दुर्गते। अतिकठने। नि+युज्यताम्। युज संयमे बन्धने–कर्मणि लोट्। नियतो बद्धो भवतु। मनः। मन बोधे–असुन्। मननात्मकं चित्तम्। हृदयम्। इदम्। सन्मार्गप्रवत्तम्। हिनस्ति। हिसि हिंसायाम्। बाधते। क्लिश्नाति ॥