वांछित मन्त्र चुनें

द्यावा॑पृथि॒वी उ॒र्व॑१न्तरि॑क्षं॒ क्षेत्र॑स्य॒ पत्न्यु॑रुगा॒योऽद्भु॑तः। उ॑ता॒न्तरि॑क्षमु॒रु वात॑गोपं॒ त इ॒ह त॑प्यन्तां॒ मयि॑ त॒प्यमा॑ने ॥

मन्त्र उच्चारण
पद पाठ

द्यावापृथिवी इति । उरु । अन्तरिक्षम् । क्षेत्रस्य । पत्नी । उरुऽगाय: । अद्भुत: । उत । अन्तरिक्षम् । उरु । वातऽगोपम् । ते । इह । तप्यन्ताम् । मयि । तप्यमाने ॥१२.१॥

अथर्ववेद » काण्ड:2» सूक्त:12» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सबकी रक्षा के लिये उपदेश।

पदार्थान्वयभाषाः - (द्यावापृथिवी=०–व्यौ) सूर्य और पृथिवी (उरु) विस्तीर्ण (अन्तरिक्षम्) मध्य में दीखनेवाला आकाश, (क्षेत्रस्य) निवासस्थान, संसार की (पत्नी) रक्षा करनेवाली [दिशा वा वृष्टि], (अद्भुतः) आश्चर्यस्वरूप (उरुगायः) विस्तृत स्तुतिवाला परमेश्वर, (उत) और (उरु) विस्तीर्ण (वातगोपम्) प्राणवायु से रक्षा किया हुआ (अन्तरिक्षम्) मध्यवर्ती अन्तःकरण [ये सब जो देव हैं] (ते) वे सब (इह) यहाँ पर [इस जन्म में] (मयि) मुझ (तप्यमाने) तपश्चर्या करते हुए पर (तप्यन्ताम्) ऐश्वर्यवाले होवें ॥१॥
भावार्थभाषाः - जब मनुष्य ब्रह्मचर्य आदि नियमों के पालन से विद्या ग्रहण करके देखभाल करता है, परमेश्वर और सम्पूर्ण सृष्टि के पदार्थ उस पुरुषार्थी पुरुष को ऐश्वर्य प्राप्त कराते हैं ॥१॥
टिप्पणी: १–द्यावापृथिवी। अ० २।१।४। ईदूदेद्द्विवचनं प्रगृह्यम्। पा० १।१।११। इति सन्धिविषये प्रकृतिभावः। सूर्यभूमी। उरु। महति ह्रस्वश्च। उ० १।३१। इति ऊर्णु आच्छादने–कु, नुलोपो ह्रस्वश्च। महत्। वड्रम्। अन्तरिक्षम्। अ० १।३०।३। अन्तर्+ईक्ष दर्शने–घञ्। आकाशम्। अन्तःकरणम्। क्षेत्रस्य। गुधृवीपचिवचि०। उ० ४।१६७। इति क्षि निवासगत्यैश्वर्येषु–त्र। निवासस्थानस्य संसारस्य भूमेर्वा। क्षियन्ति निवसन्ति अस्मिन्निति क्षेत्रमुक्तं लोकत्रयम्–इति सायणोऽपि। पत्नी। पत्युर्नो यज्ञसंयोगे। पा० ४।१।३२। इति पतिशब्दस्य नकारादेशः, ङीप् च। पालयित्री दिशा वृष्टिर्वा। उरुगायः। उरु+गै गाने–घञ्। उरुभिर्महद्भिः, यद्वा, उरु विस्तीर्णं गीयते सः। बहुगीयमानः। अद्भुतः। अदि भुवो डुतच्। उ० ५।१। अततीति अत सातत्यगमने–क्विप्। अत्, अद् वा अकस्मादर्थे। अत्+भू सत्तायां भा दीप्तौ वा डुतच्। आश्चर्यस्वरूपः। अपूर्वः। उत। अपि च। वातगोपम्। वातः प्राणवायुः, गोपाः गोपयिता यस्य, यद्वा प्राणवायुना गोप्यमानं धार्यमाणं यत्तद् अन्तरिक्षं हृदयम्। ते। सर्वे पदार्थाः। इह। अस्मिन् जन्मनि। तप्यन्ताम्। तप उपतापे ऐश्वर्ये च। दिवादिः। आत्मनेपदी–लोट्। ऐश्वर्यवन्तो भवन्तु। पश्यत–“तप्यते धनी, ईश्वरः स्यादित्यर्थः। मयि। उपासके। तप्यमाने। तप उपतापे–कर्मणि शानच्। ब्रह्मचर्यादि–तपश्चर्यां कुर्वन्ति क्लिश्यमाने वा ॥