वांछित मन्त्र चुनें

सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ अधि॑ दे॒वा मु॒ञ्चन्तो॑ असृज॒न्निरेण॑सः। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥

मन्त्र उच्चारण
पद पाठ

सूर्यम् । ऋतम् । तमस: ग्राह्या: । अधि । देवा: । मुञ्चन्त: ।असृजन् । नि: । एनस: । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.८॥

अथर्ववेद » काण्ड:2» सूक्त:10» पर्यायः:0» मन्त्र:8


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मुक्ति की प्राप्ति के लिये उपदेश।

पदार्थान्वयभाषाः - (देवाः) [ईश्वर के] दिव्य सामर्थ्यों ने (ऋतम्) चलनेवाले (सूर्यम्) सूर्य को (तमसः) अन्धकार की (ग्राह्याः) पकड़ से और (एनसः अधि) कष्ट से (मुञ्चन्तः) छुड़ाकर (निः+असृजन्) उत्पन्न किया है। (एव) ऐसे ही (अहम्) मैं (त्वाम्) तुझको (क्षेत्रियात्) शारीरिक वा वंशागत रोग से, (निर्ऋत्याः) अलक्ष्मी [महामारी, दरिद्रता आदि] से (जामिशंसात्) भक्षणशील मूर्ख के सताने से, (द्रुहः) द्रोह [अनिष्ट चिन्ता] से और (वरुणस्य) दुष्कर्मों से रोकनेवाले न्यायाधीश के (पाशात्) दण्डपाश वा बन्ध से (मुञ्चामि) मैं छुड़ाता हूँ। (ब्रह्मणा) वेदविज्ञान से (त्वा) तुझको (अनागसम्) निर्दोष (कृणोमि) करता हूँ, (ते) तेरेलिये (उभे) दोनों (द्यावापृथिवी=०–व्यौ) आकाश और पृथिवी (शिवे) मङ्गलमय (स्ताम्) होवें ॥८॥
भावार्थभाषाः - जैसे परमेश्वर की शक्ति से सूर्य प्रलय वा ग्रहण के अन्धकार से छूटकर प्रकाशित होकर क्लेशहरण करता है, ऐसे ही मनुष्य अपने सब विघ्नों का नाश करके, आत्मिक बल बढ़ाकर संसार में उपकार करे और आनन्द भोगे ॥८॥
टिप्पणी: ८–सूर्यम्। अ० १।४।२। गतिशीलं प्रेरकं वादित्यम्। ऋतम्। ऋ गतौ–कर्त्तरि क्त। ऋतः, मध्यस्थानदेवतासु–निरु० १०।४०। अर्त्तारम्। अन्तरिक्षे गन्तारम्। तमसः। तमिर् खेदे–असुन्। अन्धकारस्य। ग्राह्याः। म० १। ग्रहणात्। देवाः। ईश्वरस्य दिव्यबलानि। मुञ्चन्तः। मोचयन्तः। असृजन्। सृज विसर्गे। सृष्टवन्तः। उत्पादितवन्तः। निर्। नॄ नयने–क्विप्, न दीर्घः। निश्चये। बहिर्भावे। एनसः। इण आगसि। उ० ४।१९८। इति इण् गतौ–असुन्। नुट् च। एन एतेः–निरु० ११।२४। दुःखात्। पापात्। अपराधात्। अन्यद् व्याख्यातम् ॥