वांछित मन्त्र चुनें

अहा॒ अरा॑ति॒मवि॑दः स्यो॒नमप्य॑भूर्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥

मन्त्र उच्चारण
पद पाठ

अहा: । अरातिम् । अविद: । स्योनम् । अपि । अभू: । भद्रे । सुऽकृतस्य । लोके । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऽऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.७॥

अथर्ववेद » काण्ड:2» सूक्त:10» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मुक्ति की प्राप्ति के लिये उपदेश।

पदार्थान्वयभाषाः - (अरातिम्) कंजूसी वा वैर को (अहाः=अहासीः) तूने त्याग दिया है, (स्योनम्) हर्ष को (अविदः) तूने पाया है, (अपि) और भी (सुकृतस्य) सुकृत [पुण्य कर्म] के (भद्रे) आनन्दमय (लोके) लोक में (अभूः) तू वर्तमान हुआ है। (एव) ऐसे ही (अहम्) मैं (त्वाम्) तुझको (क्षेत्रियात्) शारीरिक वा वंशागत रोग से... [मन्त्र २] ॥७॥
भावार्थभाषाः - मनुष्य वैर छोड़कर उदार, उपकारी, सर्वमित्र बनकर अनेक बल अर्थात् मुक्ति के आनन्द को पाता है ॥७॥ पातञ्जल योगदर्शन, पाद ३ सूत्र २२ देखिये। मैत्र्यादिषु बलानि। मित्रता आदिकों में [संयम से] अनेक बल होते हैं ॥ टिप्पणी–(अभूः) के स्थान पर सायणभाष्य में [अभूत्] माना है ॥
टिप्पणी: ७–अहाः। ओहाक् त्यागे–लुङि। मन्त्रे घसह्वरणशवृदहाद्०। पा० २।४।८०। इति च्लेर्लुक्। अहासीः। अत्याक्षीः। अरातिम्। अ० १।१८।२। रा दाने–क्तिन्। अदातृताम्। शत्रुताम्। अविदः। विद्लृ लाभे–लुङ्। लृदित्वाद् अङ्। लब्धवानसि। स्योनम्। सिवेष्टेर्यू च। उ० ३।९। इति षिवु तन्तुसन्ताने–न प्रत्ययः, टिभागस्य यू इत्यादेशे गुणः। स्योनमिति सुखनाम स्यतेरवस्यन्त्येतत् सेवितव्यं भवतीति वा–निरु० ८।९। सुखम्। आनन्दम्। अपि। न पियति। पि गतौ–क्विप्, न तुक्। समुच्चये। अवधारणे। पुनरर्थे। अभूः। भू सत्तायाम्–लुङ्। त्वं वर्तमानोऽभूः। भद्रे। अ० १।१८।१। भदि–रन्। भन्दनीये। सुखप्रदे। लोके। अ० २।९।१। स्थाने। अन्यद् गतम् ॥