वांछित मन्त्र चुनें

अमु॑क्था॒ यक्ष्मा॑द्दुरि॒ताद॑व॒द्याद्द्रु॒हः पाशा॒द्ग्राह्या॒श्चोद॑मुक्थाः। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥

मन्त्र उच्चारण
पद पाठ

अमुक्था: । यक्ष्मात् । दु:ऽइतात् । अवद्यात् । द्रुह: । पाशात् । ग्राह्या: । च । उत् । अमुक्था: । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.६॥

अथर्ववेद » काण्ड:2» सूक्त:10» पर्यायः:0» मन्त्र:6


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मुक्ति की प्राप्ति के लिये उपदेश।

पदार्थान्वयभाषाः - (यक्ष्मात्) राज रोग [क्षय आदि] से, (दुरितात्) दुर्गति से और (अवद्यात्) अकथनीय, निन्दनीय कर्म से (अनुक्थाः) तू मुक्त हो गया है और (द्रुहः) द्रोह [अनिष्ट चिन्तन] से (च) और (ग्राह्याः) जकड़नेवाली पीड़ा के (पाशात्) पाश वा बन्ध से (उत्+अमुक्थाः) तू छुट चुका है। (एव) ऐसे ही (अहम्) मैं (त्वाम्) तुझको (क्षेत्रियात्) शारीरिक वा वंशागत रोग से... [मन्त्र २] ॥६॥
भावार्थभाषाः - जैसे उत्तम वैद्य रोगी के रोगों को निवृत्त करके स्वस्थ कर देता है, ऐसे ही ब्रह्मचारी वेदविज्ञान की प्राप्ति से निर्मल होकर सुखी होता है ॥६॥
टिप्पणी: ६–अमुक्थाः। मुच्लृ मोक्षणे–कर्मणि लुङि मध्यमैकवचने। झलो झलि। पा० ८।२।२६। इति सिचो लोपः। मुक्तोऽसि। यक्ष्मात्। म० ५। राजरोगात्। दुरितात्। दुर्+इण् गतौ–भावे क्त। दुर्दुष्टम् इतं गमनं नरकादिदुर्गतिः–इति दुरितम्। दुर्गतेः। पापात्। अवद्यात्। अवद्यपण्यवर्यागर्ह्यपणितव्यानिरोधेषु। पा० ३।१।१०१। इति अ+वद कथने–यत्प्रत्यान्तो निपात्यते क्यपि प्राप्ते। अवचनीयात्। अकथनीयात्। गर्ह्यात्। पापात्। द्रुहः। द्रुह–क्विप्,। अनिष्टचिन्तनात्। पाशात्। बन्धनात्। ग्राह्याः। अ० २।९।१। ग्रह–इञ्। ग्रहणशीलायाः पीडायाः सकाशात्। उत्। उङ् शब्दे–क्विप्, तुक्। पृषोदरादित्वाद् दत्वं वा। प्राकट्येन। उत्कर्षेण। अन्यद् गतम् ॥