इ॒मा या दे॒वीः प्र॒दिश॒श्चत॑स्रो॒ वात॑पत्नीर॒भि सूर्यो॑ वि॒चष्टे॑। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
इमा: । या: । देवी: । प्रऽदिश: । चतस्र: । वातऽपत्नी: । अभि । सूर्य: । विऽचष्टे । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.४॥
पण्डित क्षेमकरणदास त्रिवेदी
मुक्ति की प्राप्ति के लिये उपदेश।
