वांछित मन्त्र चुनें

सोमो॑ मा रु॒द्रैर्दक्षि॑णाया दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मि॑ञ्छ्रये॒ तां पुरं॒ प्रैमि॑। स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥

मन्त्र उच्चारण
पद पाठ

सोमः। मा। रुद्रैः। दक्षिणायाः। दिशः। पातु। तस्मिन्। क्रमे। तस्मिन्। श्रये। ताम्। पुरम्। प्र। एमि। सः। मा। रक्षतु। सः। मा। गोपायतु। तस्मै। आत्मानम्। परि। ददे। स्वाहा ॥१७.३॥

अथर्ववेद » काण्ड:19» सूक्त:17» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

रक्षा करने का उपदेश।

पदार्थान्वयभाषाः - (सोमः) सबका उत्पन्न करनेवाला परमेश्वर (रुद्रैः) दुष्टनाशक गुणों के साथ (मा) मुझे (दक्षिणायाः) दक्षिण वा दाहिनी (दिशः) दिशा से (पातु) बचावे, (तस्मिन्) उसमें.... [म०१] ॥३॥
भावार्थभाषाः - मन्त्र १ के समान है ॥३॥
टिप्पणी: ३−(सोमः) सर्वोत्पादकः परमेश्वरः (रुद्रैः) रुङ् गतौ वधे च-क्विप् तुक् च+रु वधे-ड प्रत्ययः। दुष्टनाशकैर्गुणैः (दक्षिणायाः) दक्षिणस्याः। दक्षिणहस्तस्थितायाः। अन्यत् पूर्ववत् ॥