इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुतां॒ शर्ध॑ उ॒ग्रम्। म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥
पद पाठ
इन्द्रस्य। वृष्णः। वरुणस्य। राज्ञः। आदित्यानाम्। मरुताम्। शर्धः। उग्रम्। महाऽमनसाम्। भुवनऽच्यवानाम्। घोषः। देवानाम्। जयताम्। उत्। अस्थात् ॥१३.१०॥
अथर्ववेद » काण्ड:19» सूक्त:13» पर्यायः:0» मन्त्र:10
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सेनापति के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (वृष्णः) वीर्यवान् (इन्द्रस्य) इन्द्र [महाप्रतापी मुख्य सेनापति] का, (वरुणस्य) वरुण [श्रेष्ठ गुणी मन्त्री] (राज्ञः) राजा [शासक] का, (आदित्यानाम्) अखण्डव्रती (मरुताम्) मरुद्गणों [शत्रुनाशक वीरों] का (शर्धः) बल (उग्रम्) उग्र [प्रचण्ड] होवे। (महामनसाम्) बड़े मनवाले, (भुवनच्यवानाम्) संसार को हिला देनेवाले, (जयताम्) जीतते हुए (देवानाम्) विजय चाहनेवाले वीरों का (घोषः) जय-जयकार (उत् अस्थात्) ऊँचा उठा है ॥१०॥
भावार्थभाषाः - सेनापति, सेनाध्यक्ष और सब शूर वीर सेनादल, अस्त्र-शस्त्र मारू-बाजे आदि के साथ जय-जय ध्वनि करते हुए शत्रुओं को जीतें ॥१०॥
टिप्पणी: यह मन्त्र ऋग्वेद में है-१०।१०३।९, यजु०१७।४१ और साम०, उ०९।३।३॥१०−(इन्द्रस्य) परमैश्वर्यवतः सेनापतेः (वृष्णः) वीर्यवत् (वरुणस्य) श्रेष्ठस्य मन्त्रिणः (राज्ञः) शासकस्य (आदित्यानाम्) अखण्डव्रतानाम् (मरुताम्) म०९। शत्रुमारकाणां वीराणाम् (शर्धः) बलम् (उग्रम्) प्रचण्डम् (महामनसाम्) उदारचित्तानाम् परमोत्साहिनाम् (भुवनच्यवानाम्) संसारचालकानाम् (घोषः) जयध्वनिः (देवानाम्) विजिगीषूणाम् (जयताम्) विजयं कुर्वताम् (उत्) ऊर्ध्वम् (अस्थात्) स्थितवान् ॥
