वांछित मन्त्र चुनें

शम॒ग्नयः॒समि॑द्धा॒ आ र॑भन्तां प्राजाप॒त्यं मेध्यं॑ जा॒तवे॑दसः। शृ॒तं कृ॒ण्वन्त॑ इ॒हमाव॑ चिक्षिपन् ॥

मन्त्र उच्चारण
पद पाठ

शम् । अग्नय: । सम्ऽइध्दा: । आ । रभन्ताम् । प्राजाऽपत्यम् । मेध्यम् । जातऽवेदस: । शृतम् । कृण्वन्त: । इह । मा । अव । चिक्षिपान् ॥४.१२॥

अथर्ववेद » काण्ड:18» सूक्त:4» पर्यायः:0» मन्त्र:12


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सत्य मार्ग पर चलने का उपदेश।

पदार्थान्वयभाषाः - (समिद्धाः) यथाविधिप्रकाशित की हुई और (जातवेदसः) उत्पन्न पदार्थों में विद्यमान (अग्नयः)अग्नियाँ (प्राजापत्यम्) प्रजापति परमात्मा को देवता माननेवाले (मेध्यम्) पवित्रपुरुष को (शम्) शान्ति के साथ (आ) सब ओर से (रभन्ताम्) उत्साही करें। और [उस को] (इह) वहाँ (शृतम्) परिपक्व [दृढ़ स्वभाव] (कृण्वन्तः) करती हुयीं [अग्नियाँ] (आअव चिक्षिपन्) कभी न गिरने देवें ॥१२॥
भावार्थभाषाः - जो मनुष्य यज्ञ मेंपूर्वोक्त तीनों अग्नियों को यथाविधि प्रज्वलित करते हैं, वे ब्राह्मण अपने आचरणको शुद्ध कर के पक्के ज्ञानी होकर संसार में नीचे नहीं गिरते ॥१२॥
टिप्पणी: १२−(शम्) सुखेन (अग्नयः) पूर्वोक्तपूर्वाग्न्यादयः (समिद्धाः) सम्यक् प्रकाशिताः (आ) समन्तात् (रभन्ताम्) रभ राभस्ये, औत्सुक्ये। रभसो महन्नाम-निघ० ३।३। उत्सुकमुत्साहिनंकुर्वन्तु (प्राजापत्यम्) प्रजापतिः परमात्मा देवता यस्य तम् (मेध्यम्) मेधृमेधाहिंसनयोः-ण्यत्। पवित्रम् (जातवेदसः) उत्पन्नपदार्थेषु विद्यमानाः (शृतम्)परिपक्वम्। दृढस्वभावम् (कृण्वन्तः) कुर्वन्तः (मा अव चिक्षिपन्) अ० १८।२।४।क्षिप क्षेपणे-णिचि लुङ्। अधः क्षेपणं मा कुर्वन्तु ॥