वांछित मन्त्र चुनें

उप॒ द्यामुप॑वेत॒समव॑त्तरो न॒दीना॑म्। अग्ने॑ पि॒त्तम॒पाम॑सि ॥

मन्त्र उच्चारण
पद पाठ

उप । द्याम् । उप । वेतसम् । अवत्ऽतर: । नदीनाम् । अग्ने । पित्तम् । अपाम् । असि ॥३.४॥

अथर्ववेद » काण्ड:18» सूक्त:3» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

उन्नति करने का उपदेश।

पदार्थान्वयभाषाः - (अग्ने) हे विद्वान्पुरुष ! (द्याम्) विद्याप्रकाश को (उप) पाकर और (नदीनाम्) स्तुतियों के (वेतसम्) विस्तार को (उप) आदर से (अवत्तरः) अधिक रक्षा करता हुआ तू (अपाम्)प्राणों का (पित्तम्) तेज (असि) है ॥५॥
भावार्थभाषाः - मनुष्य विद्या प्राप्तकरके स्तुतियोग्य व्यवहारों की रक्षा करता हुआ सब प्राणियों का बल बढ़ावे ॥५॥इसमन्त्र का मिलान करो यजुर्वेद १७।६ ॥
टिप्पणी: ५−(उप) उपेत्य। प्राप्य (द्याम्)विद्याप्रकाशम् (उप) पूजायाम् (वेतसम्) वेञस्तुट् च। उ० ३।११८। वेञ्तन्तुसन्ताने-असच् तुट् च। विस्तारम् (अवत्तरः) अव रक्षणे-शतृ, तरप्। अतिशयेनअवन् रक्षन् (नदीनाम्) णद अव्यक्ते शब्दे भाषायां स्तुतौ च-अच्, ङीप्।नदतिरर्चतिकर्मा-निघ० ३।१४। ऋषिर्नदो भवति नदतेः स्तुतिकर्मणः-निरु० ५।२।स्तुतीनाम् (अग्ने) हे विद्वन् पुरुष (पित्तम्) अपि+देङ् पालने-क्त। अचउपसर्गात्तः। पा० ७।४।४७। इति तादेशः। अपिदीयते रक्ष्यते शरीरं येन तत्। तेजः (अपाम्) प्राणानाम् (असि) ॥