वांछित मन्त्र चुनें

वर्च॑सा॒ मांपि॒तरः॑ सो॒म्यासो॒ अञ्ज॑न्तु दे॒वा मधु॑ना घृ॒तेन॑। चक्षु॑षे मा प्रत॒रंता॒रय॑न्तो ज॒रसे॑ मा ज॒रद॑ष्टिं वर्धन्तु ॥

मन्त्र उच्चारण
पद पाठ

वर्चसा । माम् । पितर: । सोम्यास: । अञ्जन्तु । देवा: । मधुना । घृतेन । चक्षुषे । मा । प्रऽतरम् । तारयन्त: । जरसे । मा । जरत्ऽअष्टिम् । वर्धन्तु ॥३.१०॥

अथर्ववेद » काण्ड:18» सूक्त:3» पर्यायः:0» मन्त्र:10


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

पितरों के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (सोम्यासः)ऐश्वर्यवाले, (देवाः) विद्वान्, (पितरः) पितर [रक्षक महात्मा] (माम्) मुझको (वर्चसा) तेज से, (मधुना) विज्ञान और (घृतेन) प्रकाश से (अञ्जन्तु) प्रसिद्धकरें। (चक्षुषे) सूक्ष्म दृष्टि के लिये (मा) मुझे (प्रतरम्) आगे को (तारयन्तः)पार करते हुए [वे लोग] (जरदष्टिम्) स्तुति के साथ प्रवृत्तिवाले (मा) मुझको (जरसे) स्तुति के लिये (वर्धन्तु) बढ़ावें ॥१०॥
भावार्थभाषाः - विद्वान् लोग ऐसीशिक्षाप्रणाली चलावें कि जिस से सब लोग बलवान्, विज्ञानवान्, तेजस्वी औरसूक्ष्मदर्शी होकर संसार में कीर्ति पावें ॥१०॥
टिप्पणी: १०−(वर्चसा) तेजसा (माम्) (पितरः)रक्षका महात्मानः (सोम्यासः) ऐश्वर्यवन्तः (अञ्जन्तु)अञ्जूव्यक्तिम्रक्षणकान्तिगतिषु। व्यक्तीकुर्वन्तु। विख्यातं कुर्वन्तु (देवाः)विद्वांसः (मधुना) विज्ञानेन (घृतेन) प्रकाशेन (चक्षुषे) सूक्ष्मदर्शनाय (प्रतरम्) प्रकृष्टतरम्। अधिकतरम् (तारयन्तः) पारयन्तः (जरसे) जॄ स्तुतौ-असुन्।जरतिरर्चतिकर्मा-निघ० ३।१४। स्तुतये (मा) माम् (जरदष्टिम्) अ० २।२८।५। जॄस्तुतौ-अतृन्+अशू व्याप्तौ-क्तिन्। जरता स्तुत्या सह अष्टिः कार्यव्याप्तिर्यस्यतम् (वर्धन्तु) वर्धयन्तु उन्नयन्तु ॥