वांछित मन्त्र चुनें

प्रा॒णो अ॑पा॒नोव्या॒न आयु॒श्चक्षु॑र्दृ॒शये॒ सूर्या॑य। अप॑रिपरेण प॒था य॒मरा॑ज्ञः पि॒तॄन्ग॑च्छ॥

मन्त्र उच्चारण
पद पाठ

प्राण: । अपान: । विऽआन: । आयु: । चक्षु: । दृशये । सूर्याय । अपरिऽपरेण । पथा । यमऽराज्ञ: । पितॄन् । गच्छ ॥२.४६॥

अथर्ववेद » काण्ड:18» सूक्त:2» पर्यायः:0» मन्त्र:46


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

पितरों के गुणों का उपदेश।

पदार्थान्वयभाषाः - [हे मनुष्य ! तेरे] (प्राणः) प्राण [श्वास], (अपानः) अपान [प्रश्वास], (व्यानः) व्यान [सर्वशरीरव्यापक वायु], (आयुः) जीवन और (चक्षुः) नेत्र (सूर्याय दृशये) सर्वप्रेरकपरमात्मा के देखने को [होवें]। (अपरिपरेण) इधर-उधर न घूमनेवाले [सर्वथा सीधे] (पथा) मार्ग से (यमराज्ञः) यम [न्यायकारी परमात्मा] को राजा रखनेवाले (पितॄन्)पितरों [रक्षक महात्माओं] को (गच्छ) प्राप्त हो ॥४६॥
भावार्थभाषाः - मनुष्य अनन्यभाव सेपरमात्मा की प्राप्ति के लिये वेदानुयायी महात्माओं की शरण लेवे ॥४६॥
टिप्पणी: ४६−(प्राणः)श्वासः (अपानः) प्रश्वासः (व्यानः) सर्वशरीरव्यापको वायुः (आयुः) जीवनम् (चक्षुः) नेत्रम् (दृशये) दर्शनाय। द्रष्टुम् (सूर्याय) सूर्यम्। सर्वप्रेरकंपरमात्मानम् (अपरिपरेण) छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि। पा० ५।२।८९। अत्रपरिपरशब्द इनिप्रत्ययान्तो दृश्यते। परि परितः सर्वतः परः परभावो भिन्नभावःकुटिलभावो न विद्यते यस्मिन् तादृशेन महासरलेन (पथा) मार्गेण (यमराज्ञः) यमोन्यायकारी परमात्मा राजा येषां तान् (पितॄन्) पालकान्। महापुरुषान् (गच्छ)प्राप्नुहि ॥