अङ्गि॑रसो नःपि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑। तेषां॑ व॒यं सु॑म॒तौय॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥
पद पाठ
अङ्गिरस: । न: । पितर: । नवऽग्वा: । अथर्वाण: । भृगव: । सोम्यास: । तेषाम् । वयम् । सुऽमतौ । यज्ञियानाम् । अपि। भद्रे । सौमनसे । स्याम ॥१.५८॥
अथर्ववेद » काण्ड:18» सूक्त:1» पर्यायः:0» मन्त्र:58
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
पितरों और सन्तानों के कर्त्तव्य का उपदेश।
पदार्थान्वयभाषाः - (नः) हमारे (अङ्गिरसः)महाविज्ञानी (पितरः) पितर [रक्षक पिता आदि बुद्धिमान् लोग] (नवग्वाः) स्तुतियोग्य चरित्रवाले [वा नवीन-नवीन विद्याएँ प्राप्त करने और कराने हारे], (अथर्वाणः) निश्चय स्वभाववाले, (भृगवः) परिपक्व ज्ञानयुक्त और (सोम्यासः)ऐश्वर्य पाने योग्य [होवें]। (तेषाम्) उन (यज्ञियानाम्) पूजनीय महापुरुषों की (अपि) ही (सुमतौ) सुमति में और (भद्रे) कल्याण करने हारी (सौमनसे) मन कीप्रसन्नता में (वयम्) हम (स्याम) होवें ॥५८॥
भावार्थभाषाः - सन्तानों को योग्य हैकि बड़े-बड़े विज्ञानी माता-पिता आदि पूजनीय महात्माओं की उत्तम शिक्षा को सदाग्रहण करें ॥५८॥यह मन्त्र ऋग्वेद में है−१०।१४।६ और यजुर्वेद में १९।५० ॥इसमन्त्र के उत्तरार्द्ध का मिलान करो-अथर्व० ६।५५।३ तथा ७।९५।१ ॥
टिप्पणी: ५८−(अङ्गिरसः)महाविज्ञानिनो महर्षयः (नः) अस्माकम् (पितरः) पालका ज्ञानिनः पुरुषाः (नवग्वाः)अ० १४।१।५६। णु स्तुतौ-अप्+गम्लृ गतौ−ड्व प्रत्ययः। नवगतयः। स्तोतव्यचरित्राः।नवीनविद्याः प्राप्ताः प्रापयितारश्च (अथर्वाणः) अ० ४।१।७।थर्वतिश्चरतिकर्मा-निरु० ११।२८। स्नामदिपद्यर्त्ति०। उ० ४।११३। अ+थर्व चरणे गतौ=वनिप्, वकारलोपो वा। निश्चलस्वभावाः (भृगवः) परिपक्वज्ञानयुक्ताः (सोम्यासः)सोममैश्वर्यमर्हन्ति ये (तेषाम्) (वयम्) (सुमतौ) कल्याणबुद्धौ (यज्ञियानाम्)पूजार्हाणाम् (अपि) (भद्रे) मङ्गलप्रदे (सौमनसे) सुमनसो भावे। प्रसादे (स्याम)भवेम ॥
