प॑रेयि॒वांसं॑प्र॒वतो॑ म॒हीरिति॑ ब॒हुभ्यः॒ पन्था॑मनुपस्पशा॒नम्। वै॑वस्व॒तं सं॒गम॑नं॒जना॑नां य॒मं राजा॑नं ह॒विषा॑ सपर्यत ॥
पद पाठ
परेयिऽवांसम् । प्रऽवत: । मही: । इति । बहुऽभ्य: । पन्थाम् । अनुऽपस्पशानम् । वैवस्वतम् । सम्ऽगमनम् । जनानाम् । यमम् । राजानम् । हविषा । सपर्यत ॥१.४९॥
अथर्ववेद » काण्ड:18» सूक्त:1» पर्यायः:0» मन्त्र:49
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परमात्मा की शक्ति का उपदेश।
पदार्थान्वयभाषाः - (प्रवतः) उत्तमगतिवाली (महीः) बड़ी भूमियों को (परेयिवांसम्) पराक्रम से पहुँच चुके हुए, (इति) इसी से, (बहुभ्यः) बहुत से [लोकों और जीवों] के लिये (पन्थाम्) मार्ग (अनुपस्पशानम्) गाँठनेवाले (वैवस्वतम्) सूर्यलोकों में विदित, (जनानाम्)मनुष्यों के (संगमनम्) मेल करानेवाले (यमम्) यम [न्यायकारी परमात्मा] (राजानम्)राजा [शासक] को (हविषा) भक्ति के साथ (सपर्यत) तुम पूजो ॥४९॥
भावार्थभाषाः - जो परमात्मा सब लोकोंमें व्यापक और सूर्य आदि का आकर्षक और मनुष्य आदि का नियामक है, सब लोग उसकीउपासना से उन्नति करें ॥४९॥मन्त्र ४९, ५० कुछ भेद से ऋग्वेद में−१०।१४।१, २। औरऋग्वेदपाठ महर्षिदयानन्दकृत संस्कारविधि अन्त्येष्टिप्रकरण में उद्धृत हैं॥
टिप्पणी: ४९−(परेयिवांसम्) उपयिवाननाश्वाननूचानश्च। पा० ३।२।१०९। परा+इण् गतौ-क्वस्वन्तोनिपातितः। परा पराक्रमेण गतवन्तम् (प्रवतः) अ० ३।१।४। उपसर्गाच्छन्दसिधात्वर्थे। पा० ५।१।११८। इति उपसर्गात् साधने धात्वर्थे वर्तमानात् स्वार्थेवतिः प्रत्ययः। प्रकृष्टगतीः (महीः) भूमिलोकान् (इति) अस्मात् कारणात् (बहुभ्यः)सर्वलोकेभ्यः प्राणिभ्यश्च (पन्थाम्) मार्गम् (अनुपस्पशानम्) स्पशबाधनग्रन्थनग्रहणसंश्लेषणेषु कानच्। अनु निरन्तरं ग्रन्थन् प्रबध्नन् (वैवस्वतम्) तत्र विदित इति च। पा० ५।१।४३। इत्यण्, बाहुलकात्। विवस्वत्सुसूर्यलोकेषु विदितम् (संगमनम्) संगमयितारम् (जनानाम्) (यमम्) न्यायकारिणंपरमात्मानम् (राजानम्) शासकम्) (हविषा) भक्तिदानेन (सपर्यत) पूजयत ॥
