स्वा॒दुष्किला॒यंमधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायम्। उ॒तो न्वस्यप॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ॥
पद पाठ
स्वादु: । किल । अयम् । मधुऽमान् । उत । अयम् । तीव्र: । किल । अयम् । रसऽवान् । उत । अयम् । उतो इति । नु । अस्य । पपिऽवांसम् । इन्द्रम् । न । क: । चन । सहते । आऽहवेषु ॥१.४८॥
अथर्ववेद » काण्ड:18» सूक्त:1» पर्यायः:0» मन्त्र:48
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
शूरवीर के लक्षण का उपदेश।
पदार्थान्वयभाषाः - (अयम्) यह [सोमअर्थात् विद्यारस वा सोमलता आदि रस] (किल) निश्चय करके (स्वादुः) बड़ा स्वादु, (अयम्) यह (मधुमान्) विज्ञानयुक्त [वा मधुरगुणयुक्त], (उत) और (अयम्) यह (किल) निश्चय करके (तीव्रः) तेजस्वी, (उत) और (अयम्) यह (रसवान्) उत्तम रसवाला [बड़ा वीर्यवान्] है। (उतो) और भी (नु) अब (अस्य) इस [रस] के (पपिवांसम्) पीचुकनेवाले (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले शूर पुरुष] को (कः चन) कोई भी (आहवेषु) संग्रामों में (न) नहीं (सहते) हराता है ॥४८॥
भावार्थभाषाः - जो मनुष्य जितेन्द्रियब्रह्मचारी होकर विद्यारस को तथा परीक्षित महौषधियों के रस को चखकर तेजस्वी होतेहैं, वे ही युद्धो में शत्रुओं को हराते हैं ॥४८॥यह मन्त्र ऋग्वेद में है−६।४७।१ ॥
टिप्पणी: ४८−(स्वादुः) आस्वादनीयः (किल) निश्चयेन (अयम्) सोमः। विद्यारसः।सोमलतादिमहौषधिरसः (मधुमान्) मधुविद्योपेतः। मधुरगुणः (उत) अपि (अयम्) (तीव्रः)तेजस्वी (किल) (अयम्) (रसवान्) बहुवीर्यवान् (उत) (अयम्) (उतो) अपि च (नु)क्षिप्रम् (अस्य) रसस्य (पपिवांसम्) पीतवन्तम् (इन्द्रम्) परमैश्वर्यवन्तंशूरपुरुषम् (न) निषेधे (कश्चन) कोऽपि (सहते) पराभवति (आहवेषु) संग्रामेषु ॥
