सर॑स्वतींपि॒तरो॑ हवन्ते दक्षि॒ना य॒ज्ञम॑भि॒नक्ष॑माणाः। आ॒सद्या॒स्मिन्ब॒र्हिषि॑मादयध्वमनमी॒वा इष॒ आ धे॑ह्य॒स्मे ॥
पद पाठ
सरस्वतीम् । पितर: । हवन्ते । दक्षिणा । यज्ञम् । अभिऽनक्षमाणा: । आऽसद्य । अस्मिन् । बर्हिषि । मादयध्वम् । अनमीवा: । इष: । आ । धेहि । अस्मे इति ॥१.४२॥
अथर्ववेद » काण्ड:18» सूक्त:1» पर्यायः:0» मन्त्र:42
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सरस्वती के आवाहन का उपदेश।
पदार्थान्वयभाषाः - (सरस्वतीम्) सरस्वती [विज्ञानवती वेदविद्या] को (दक्षिणा) सरल मार्ग में (यज्ञम्) यज्ञ [संयोगव्यवहार] को (अभिनक्षमाणाः) प्राप्त करते हुए (पितरः) पितर [पालनकरनेवाले विज्ञानी] लोग (हवन्ते) बुलाते हैं। [हे विद्वानो !] (अस्मिन्) इस (बर्हिषि) वृद्धि कर्म में (आसद्य) बैठकर (मादयध्वम्) [सबको] तृप्त करो, [हेसरस्वती !] (अस्मे) हम में (अनमीवाः) पीड़ा रहित (इषः) इच्छाएँ (आ धेहि)स्थापित कर ॥४२॥
भावार्थभाषाः - विद्वान् लोगनिर्विघ्न होकर सरल रीति में सबसे मिलकर वेदविद्या के प्रचार से विज्ञान कीवृद्धि और इष्ट पदार्थ की सिद्धि करते हैं ॥४२॥
टिप्पणी: ४२−(सरस्वतीम्) विज्ञानवतींवेदविद्याम् (पितरः) पालनशीला विज्ञानिनः (हवन्ते) आह्वयन्ति (दक्षिणा)दक्षिण-आच्। दक्षिणतः। सरलमार्गे (यज्ञम्) संयोगव्यवहारम् (अभिनक्षमाणाः) अभितोगच्छन्तः (आसद्य) उपविश्य (अस्मिन्) (बर्हिषि) बृंहेर्नलोपश्च। उ० २।१०९। बृहिवृद्धौ-इषि। वृद्धिकर्मणि (मादयध्वम्) तर्पयत सर्वान्, हे विद्वांसः (अनमीवाः)पीडारहिताः (इषः) इच्छाः (आ धेहि) स्थापय, हे सरस्वति (अस्मे) अस्मासु ॥
