दु॒र्मन्त्वत्रा॒मृत॑स्य॒ नाम॒ सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति। य॒मस्य॒ योम॒नव॑ते सु॒मन्त्व॑ग्ने॒ तमृ॑ष्व पा॒ह्यप्र॑युच्छन् ॥
पद पाठ
दु:ऽमन्तु । अत्र । अमृतस्य । नाम । सऽलक्ष्मा । यत् । विषुऽरूपा । भवाति । यमस्य । य: । मनवते । सुऽमन्तु । अग्ने । तम् । ऋष्व । पाहि । अप्रऽयुच्छन् ॥१.३४॥
अथर्ववेद » काण्ड:18» सूक्त:1» पर्यायः:0» मन्त्र:34
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परमात्मा के गुणों का उपदेश।
पदार्थान्वयभाषाः - (अत्र) यहाँ [संसारमें] (अमृतस्य) अमर [अविनाशी परमात्मा] का (नाम) नाम (दुर्मन्तु) दुर्माननीय [सर्वथा अपूजनीय] [होवे], (यत्) यदि (सलक्ष्मा) एकसे लक्षणवाली [धर्मव्यवस्था] (विषुरूपा) नाना स्वभाववाली [चंचल, अधार्मिक] (भवाति) हो जावे। (यः) जो कोई [मनुष्य] (यमस्य) [तुझ] न्यायकारी परमेश्वर के [नाम को] (सुमन्तु) बड़ा माननीय (मनवते) मानता है, (अग्ने) हे ज्ञानमय ! (ऋष्व) हे महान् परमेश्वर ! (तम्) उसको (अप्रयुच्छन्) बिना चूके हुए (पाहि) पाल ॥३४॥
भावार्थभाषाः - जो परमात्मा अन्यायकरे तो सब संसार उलट-पलट हो जावे। जो कोई मनुष्य उसकी न्यायव्यवस्था पर चलते हैं, वे सुख पाते हैं ॥३४॥इस मन्त्र का दूसरा पाद मन्त्र २ में आया है॥
टिप्पणी: ३४−(दुर्मन्तु) कमिमनिजनि०। उ० १।७३। मन पूजायाम्-तु, दुर्माननीयम्। नकदापिसत्करणीयम् (अत्र) संसारे (अमृतस्य) अविनाशिनः परमेश्वरस्य (नाम) नामधेयम् (सलक्ष्मा) समानलक्षणा धर्मव्यवस्था (यत्) यदि (विषुरूपा) नानास्वभावा। चञ्चला।अधार्मिका (भवाति) भवेत् (यमस्य) न्यायकारिणः परमेश्वरस्य, नाम-इत्यस्यानुवृत्तिः (यः) कश्चित् पुरुषः (मनवते) मनुते। जानाति (सुमन्तु)सुमाननीयम् (अग्ने) हे ज्ञानमय परमेश्वर (तम्) पुरुषम् (ऋष्व)सर्वनिघृष्वरिष्व०। उ० १।१५३। महन्नाम-निघ० ३।३। हे महन् परमेश्वर (पाहि) पालय (अप्रयुच्छन्) अप्रमाद्यन् ॥
