श्रु॒धी नो॑अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम्। आ नो॑ वह॒ रोद॑सीदे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ॥
श्रुधि । न: । अग्ने । सदने । सधऽस्थे । युक्ष्व । रथम् । अमृतस्य । द्रवित्नुम् । आ । न: । वह । रोदसी इति । देवपुत्रे इति । देवऽपुत्रे । माकि: । देवानाम् । अप । भू: । इह । स्या: ॥१.२५॥
पण्डित क्षेमकरणदास त्रिवेदी
विद्वानों के कर्त्तव्य का उपदेश।
