उदी॑रय पि॒तरा॑जा॒र आ भग॒मिय॑क्षति हर्य॒तो हृ॒त्त इ॑ष्यति। विव॑क्ति॒ वह्निः॑ स्वप॒स्यते॑म॒खस्त॑वि॒ष्यते॒ असु॑रो॒ वेप॑ते म॒ती ॥
पद पाठ
उत् । ईरय । पितरा । जाRर: । आ । भगम् । इयक्षति । हर्यत: । हृत्त: । इष्यति । विवक्ति । वह्नि: । सुऽअपस्यते । मख: । तविष्यते । असुर: । वेपते । मती ॥१.२३॥
अथर्ववेद » काण्ड:18» सूक्त:1» पर्यायः:0» मन्त्र:23
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
विद्वानों के कर्त्तव्य का उपदेश।
पदार्थान्वयभाषाः - [हे विद्वान् !] (जारःआ) स्तोता [गुणज्ञ पुरुष] के समान (पितरा) माता-पिता को (भगम्) ऐश्वर्य की ओर (उत् ईरय) ऊँचा पहुँचा, [क्योंकि] (हर्यतः) [शुभगुणों का] चाहनेवाला (हृत्तः)हृदय से (इयक्षति) [उन्हें] पूजना चाहता है और (इष्यति) चलता है। (वह्निः) भारउठानेवाला (विवक्ति) बोलता है, (मखः) उद्यागी (स्वपस्यते) सत्कर्म करना चाहता हैऔर (असुरः) प्राणवान् [बलवान्] (तविष्यते) महान् होना चाहता है, और (मती) बुद्धिके साथ (वेपते) चेष्टा करता है ॥२३॥
भावार्थभाषाः - विद्वान् कृतज्ञ पुरुषधन आदि से माता-पिता की सेवा करे, क्योंकि वृद्धों की सेवा से मनुष्य पुरुषार्थीहोकर जगत् में बड़ा होता है ॥२३॥
टिप्पणी: २३−(उदीरय) द्विकर्मकः। उद्गमय। उच्चैः प्रापय (पितरा) मातापितरौ (जारः) जरतिरर्चतिकर्मा-निघ० ३।१४। जरिता स्तोतृनाम-निघ०३।१६। जॄ स्तुतौ-घञ्। स्तोता। गुणज्ञः (आ) सादृश्ये। इव (भगम्) ऐश्वर्यं प्रति (इयक्षति) यजेः सन्, अभ्यासस्य संप्रसाणं छान्दसम्। यष्टुं पूजयितुमिच्छति (हर्यतः) कमनीयः पुरुषः (हृत्तः) हृदयात् (इष्यति) इष गतौ। गच्छति (विवक्ति)कथयति (वह्निः) भारस्य वोढा (स्वपस्यते) अपः कर्मनाम-निघ० २।१। सुप आत्मनःक्यच्। पा० ३।१।८। सु+अपस्-क्यच्। सत्कर्म कर्त्तुमिच्छति (मखः) मख सर्पणे, गतौ-घ प्रत्ययः। उद्योगी पुरुषः (तविष्यते) तविषो महन्नाम-निघ० ३।३। तविष-क्यच्।अकारलोपश्छान्दसः। तविषयते। महान् भवितुमिच्छति (असुरः) प्राणवान्। बलवान् (वेपते) चेष्टते (मती) मत्या ॥
