त्रीणि॒छन्दां॑सि क॒वयो॒ वि ये॑तिरे पुरु॒रूपं॑ दर्श॒तं वि॒श्वच॑क्षणम्। आपो॒ वाता॒ओष॑धय॒स्तान्येक॑स्मि॒न्भुव॑न॒ आर्पि॑तानि ॥
पद पाठ
त्रीणि । छन्दांसि । कवय: । वि । येतिरे । पुरुऽरूपम् । दर्शतम् । विश्वऽचक्षणम् । आप: । वाता: । ओषधय: । तानि । एकस्मिन् । भुवने । आर्पितानि ॥१.१७॥
अथर्ववेद » काण्ड:18» सूक्त:1» पर्यायः:0» मन्त्र:17
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
विद्वानों के कर्त्तव्य का उपदेश।
पदार्थान्वयभाषाः - (कवयः) बुद्धिमानों ने (पुरुरूपम्) अनेक प्रकार निरूपण करने योग्य, (दर्शतम्) अद्भुत गुणवाले (विश्वचक्षणम्) सबके देखने योग्य, (त्रीणि) तीन (छन्दांसि) आनन्द देनेवालेपदार्थों को (वि) विविध प्रकार (येतिरे) यत्न में किया है। वे (आपः) जल, (वाताः)पवनें और (ओषधयः) ओषधें [सोमलता, जौ, चावल आदि] हैं, (तानि) वे सब (एकस्मिन्) एक (भुवने) भुवन [सबके आधार परमात्मा] में (आर्पितानि) ठहरे हैं ॥१७॥
भावार्थभाषाः - विद्वान् लोग अनेकप्रकार उपकारी जल, वायु, और ओषधियों आदि के गुणों को विद्वानों में उपदेश करकेलाभ उठावें और उनके कर्ता परमात्मा की महिमा जानकर उन्नति करें ॥१७॥
टिप्पणी: १७−(त्रीणि)त्रिसंख्याकानि (छन्दांसि) अ० ४।३४।१। चन्देरादेश्च छः। उ० ४।२१९। चदिआह्लादने-असुन्, चस्य छः। आनन्दप्रदपदार्थान् (कवयः) मेधाविनः (वि) विविधम् (येतिरे) यती प्रयत्ने-लिट्। यत्ने कृतवन्तः (पुरुरूपम्) बहुविधनिरूपणीयम् (दर्शतम्) दृशिर्-अतच्। दर्शनीयम्। अद्भुतगुणयुक्तम् (विश्वचक्षणम्)सर्वैर्दर्शनीयम् (आपः) जलानि (वाताः) वायवः (ओषधयः) सोमलताव्रीहियवादयः (तानि)वस्तूनि (एकस्मिन्) (भुवने) सर्वाधारे परमेश्वरे (आर्पितानि) समन्ताद्निवेशितानि ॥
