वांछित मन्त्र चुनें

प्र॒जाप॑ते॒रावृ॑तो॒ ब्रह्म॑णा॒ वर्म॑णा॒हं क॒श्यप॑स्य॒ ज्योति॑षा॒ वर्च॑सा च।ज॒रद॑ष्टिः कृ॒तवी॑र्यो॒ विहा॑याः स॒हस्रा॑युः॒ सुकृ॑तश्चरेयम् ॥

मन्त्र उच्चारण
पद पाठ

प्रजाऽपते: । आऽवृत: । ब्रह्मणा । वर्मणा । अहम् । कश्यपस्य । ज्योतिषा । वर्चसा । च । जरत्ऽअष्टि: । कृतऽवीर्य: । विऽहाया: । सहस्रऽआयु: । सुऽकृत: । चरेयम् ॥१.२७॥

अथर्ववेद » काण्ड:17» सूक्त:1» पर्यायः:0» मन्त्र:27


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आयु की बढ़ती के लिये उपदेश।

पदार्थान्वयभाषाः - (प्रजापतेः) प्रजापति [प्राणियों के रक्षक] और (कश्यपस्य) कश्यप [सर्वदर्शक परमेश्वर] के (ब्रह्मणा)वेदज्ञान से, (वर्मणा) आश्रय [वा रक्षा] से, (ज्योतिषा) ज्योति से (च) और (वर्चसा) प्रताप से (आवृतः) घेरा हुआ (अहम्) मैं, (जरदष्टिः) बड़ाई के साथप्रवृत्ति [वा भोजन] वाला, (कृतवीर्यः) पूरे पराक्रमवाला, (विहायाः) विविधउपायोंवाला, (सहस्रायुः) सहस्रों प्रकार से अन्नवाला और (सुकृतः) पुण्यकर्मवाला [होकर], (चरेयम्) चलता रहूँ ॥२७॥
भावार्थभाषाः - मनुष्यों को योग्य हैकि सर्वपालक, सर्वदर्शक जगदीश्वर का अनेक प्रकार आश्रय लेकर और विविध प्रकारउपाय करके सुकर्मी होकर सदा आनन्द भोगें ॥२७॥
टिप्पणी: २७−(प्रजापतेः) प्राणिपालकस्य (आवृतः) समन्ताद् वेष्टितः (ब्रह्मणा) वेदज्ञानेन (वर्मणा) आश्रयेण रक्षणेन (अहम्) उपासकः (कश्यपस्य) अ० २।३३।७। कृञादभ्यः संज्ञायां वुन्। उ० ५।३५। दृशिर्प्रेक्षणे-वुन्, पश्यादेशः, आद्यन्ताक्षरविपर्ययेण सिद्धिः। पश्यकस्य।सर्वद्रष्टुः परमेश्वरस्य (ज्योतिषा) तेजसा (वर्चसा) प्रतापेन (च) (जरदष्टिः) अ०२।२८।५। जरतिरर्चतिकर्मा-निघ० ३।१४। जीर्यतेरतृन्। पा० ३।२।१०४। जॄस्तुतौ-अतृन्+अशू व्याप्तौ, अश भोजने वा-क्तिन्। जरता स्तुत्या सह अष्टिःकार्यव्याप्तिर्भोजनं वा यस्य सः (कृतवीर्यः) पर्याप्तपराक्रमः (विहायाः)वहिहाधाञ्भ्यश्छन्दसि। उ० ४।२२१। ओहाङ् गतौ-असुन्, णिद्वद्भावाद् युगागमः।विविधगतियुक्तः। बहुप्रयत्नः (सहस्रायुः) आयुः, अन्ननाम-निघ० २।७। छन्दसीणः। उ०१।२। इण् गतौ-उण्। सहस्रप्रकारेणान्नयुक्तः। (सुकृतः) पुण्यकर्मा (चरेयम्)गच्छेयम् ॥