रुचि॑रसि रो॒चोऽसि॑। स यथा॒ त्वं रुच्या॑ रो॒चोऽस्ये॒वाहं प॒शुभि॑श्च ब्राह्मणवर्च॒सेन॑ चरुचिषीय ॥
पद पाठ
रुचि: । असि । रोच: । असि । स: । यथा । त्वम् । रुच्या । रोच: । असि । एव । अहम् । पशुऽभि: । च । ब्राह्मणऽवर्चसेन । च । रुचिषीय ॥२.२१॥
अथर्ववेद » काण्ड:17» सूक्त:1» पर्यायः:0» मन्त्र:21
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
आयु की बढ़ती के लिये उपदेश।
पदार्थान्वयभाषाः - [हे परमेश्वर !] तू (रुचिः) प्रीतिरूप (असि) है, तू (रोचः) प्रीति करानेवाला (असि) है। (सः त्वम्)सो तू (यथा) जैसे (रुच्या) प्रीति के साथ (रोचः) प्रीति करानेवाला (असि) है, (एव) वैसे ही (अहम्) मैं (पशुभिः) प्राणियों के साथ (च च) और (ब्राह्मणवर्चसेन)ब्राह्मणों [ब्रह्मज्ञानियों] के समान तेज के साथ (रुचिषीय) रुचि करूँ ॥२१॥
भावार्थभाषाः - जैसे परमात्मा हमारेसाथ प्रीति करके अनेक उपकार करता है, वैसे ही हम महात्माओं के समान सब प्राणियोंऔर वेदज्ञान से प्रीति करके सदा उपकार करें ॥२१॥
टिप्पणी: २१−(रुचिः) रुचदीप्तावभिप्रीतौ च-कि। प्रीतिस्वरूपः (असि) (रोचः) रोचतेः पचाद्यच्।प्रीतिकारकः (सः) तादृशः (यथा) (त्वम्) (रुच्या) प्रीत्या (रोचः) प्रीतिकारकः (असि) (एव) तथा (अहम्) उपासकः (पशुभिः) प्राणिभिः (च) (ब्राह्मणवर्चसेन)ब्रह्महस्तिभ्यां वर्चसः। पा० ५।४।७८। इति ब्राह्मणशब्दात् परस्यापि वर्चसःसमासान्तोऽच्। ब्रह्मज्ञानितुल्यतेजसा (च) (रुचिषीय) रुचिमान् भवेयम् ॥
