वांछित मन्त्र चुनें

त्वमिन्द्र॒स्त्वं म॑हे॒न्द्रस्त्वं लो॒कस्त्वं प्र॒जाप॑तिः। तुभ्यं॑ य॒ज्ञो विता॑यते॒ तुभ्यं॑ जुह्वति॒ जुह्व॑त॒स्तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

मन्त्र उच्चारण
पद पाठ

त्वम् । इन्द्र: । त्वम् । महाऽइन्द्र: । त्वम् । लोक: । त्वम् । प्रजाऽपति: । तुभ्यम् । यज्ञ: । वि । तायते । तुभ्यम् । जुह्वति । जुह्वत: । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै:। सुऽधायाम् । मा । धेह‍ि । परमे । विऽओमन् ॥१.१८॥

अथर्ववेद » काण्ड:17» सूक्त:1» पर्यायः:0» मन्त्र:18


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आयु की बढ़ती के लिये उपदेश।

पदार्थान्वयभाषाः - [हे परमेश्वर !] (त्वम्) तू (इन्द्रः) इन्द्र [परम ऐश्वर्यवाला], (त्वम्) तू (महेन्द्रः)महेन्द्र [बड़ों में परम ऐश्वर्यवाला], (त्वम्) तू (लोकः) लोकपति [संसार कास्वामी] और (त्वम्) तू (प्रजापतिः) प्रजापति [प्राणियों का रक्षक] है। (तुभ्यम्)तेरे लिये [तेरी आज्ञा पालने के लिये] (यज्ञः) यज्ञ [श्रेष्ठ व्यवहार] (वितायते) विविध फैलाया जाता है, (तुभ्यम्) तेरे लिये (जुह्वतः) होम [हवन, दान आदि]करते हुए पुरुष (जुह्वति) होम [हवन, दान आदि] करते हैं, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही.. [मन्त्र ६] ॥१८॥
भावार्थभाषाः - परमेश्वर सबका स्वामी, सबका रक्षक और सबको नियम में रखनेवाला है, उसकी आज्ञा पालने से तुम अपनी उन्नतिकरो ॥१८॥
टिप्पणी: १८−(त्वम्) (इन्द्रः) परमैश्वर्यवान् (महेन्द्रः) महत्सु परमैश्वर्यवान् (लोकः) अर्शआद्यच्। लोकपतिः (प्रजापतिः) प्राणिनां रक्षकः (तुभ्यम्) तवाज्ञापालनाय (यज्ञः) श्रेष्ठव्यवहारः (वि) विविधम् (तायते) विस्तार्यते (जुह्वति) होमंहवनदानादिकं कुर्वन्ति (जुह्वतः) होमं हवनदानादिकं कुर्वन्तः। अन्यत् पूर्ववत् ॥