वांछित मन्त्र चुनें

तदेक॑मभव॒त्तल्ल॒लाम॑मभव॒त्तन्म॒हद॑भव॒त्तज्ज्ये॒ष्ठम॑भव॒त्तद्ब्रह्मा॑भव॒त्तत्तपो॑ऽभव॒त्तत्स॒त्यम॑भव॒त्तेन॒ प्राजा॑यत ॥

मन्त्र उच्चारण
पद पाठ

तत् । एकम् । अभवत् । तत् । ललामम् । अभवत् । तत् । महत् । अभवत् । तत् । ज्येष्ठम् । अभवत् । तत् । ब्रह्म । अभवत् । तत् । तप: । अभवत् । तत् । सत्यम् । अभवत् । तेन । प्र । अजायत ॥१.३॥

अथर्ववेद » काण्ड:15» सूक्त:1» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्माऔर जीवात्मा का उपदेश अथवा सृष्टिविद्या का उपदेश।

पदार्थान्वयभाषाः - (तत्) वह [वरणीयसामर्थ्य] (एकम्) एक [अद्वितीय] (अभवत्) हुआ, (तत्) वह (ललामम्) प्रधानस्वरूप (अभवत्) हुआ, (तत्) वह (मरुत्) गुणों में वृद्ध (अभवत्) हुआ, (तत्) वह (ज्येष्ठम्) अत्यन्त वयोवृद्ध (अभवत्) हुआ, (तत्) वह (ब्रह्म) ब्रह्म [बड़ा फैलाहुआ व्यापक] (अभवत्) हुआ, (तत्) वह (तपः) तप [प्रताप वा ऐश्वर्यस्वरूप] (अभवत्)हुआ, (तत्) वह (सत्यम्) सत्य [विद्यमान जगत् का हितकारी अविनाशी कारणरूप] (अभवत्) हुआ, (तेन) उस [स्वरूप] के साथ (प्र अजायत) वह परमात्मा प्रकट हुआ ॥३॥
भावार्थभाषाः - वह जगदीश्वर अपने अनेकसामर्थ्यों और गुणों को प्रकट करने से सब जगत् में प्रतीत हुआ ॥३॥
टिप्पणी: ३−(तत्)प्रसिद्धम् (एकम्) अद्वितीयं स्वरूपम् (अभवत्) (तत्) (ललामम्) ललईप्सायाम्-क्विप्+अम गतौ-अण्। प्रधानस्वरूपम् (अभवत्) (तत्) (महत्) गुणैःपूजनीयम् (अभवत्) (तत्) (ज्येष्ठम्) अतिशयेन वयोवृद्धम् (अभवत्) (तत्) (ब्रह्म)प्रवृद्धं व्यापकस्वरूपम् (अभवत्) (तत्) (तपः) प्रतापस्वरूपम्। ऐश्वर्यस्वरूपम् (अभवत्) (तत्) (सत्यम्) सत्-यत्। सते विद्यमानाय जगते हितम्। अविनाशि कारणरूपम् (अभवत्) (तेन) सामर्थ्येन (प्र अजायत) प्रादुरभवत् ॥