वांछित मन्त्र चुनें

येदंपूर्वाग॑न्रशना॒यमा॑ना प्र॒जाम॒स्यै द्रवि॑णं चे॒ह द॒त्त्वा। तांव॑ह॒न्त्वग॑त॒स्यानु॒ पन्थां॑ वि॒राडि॒यं सु॑प्र॒जा अत्य॑जैषीत् ॥

मन्त्र उच्चारण
पद पाठ

या । इदम् । पूर्वा । अगन् । रशनाऽयमाना । प्रऽजाम् । अस्यै । द्रविणम् । च । इह । दत्त्वा । ताम् । वहन्तु । अगतस्य । अनु । पन्थाम् । विऽराट् । इयम् । सुऽप्रजा: । अति । अजैषीत् ॥२.७४॥

अथर्ववेद » काण्ड:14» सूक्त:2» पर्यायः:0» मन्त्र:74


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

गृहआश्रम का उपदेश।

पदार्थान्वयभाषाः - (या) जो [वधू] (पूर्वा) पहिली [सबसे ऊपर] होकर (रशनायमाना) कटि बाँधे हुए (इदम्) इस [स्थान]में (अगन्) आवे, (अस्यै) इस [वधू] के हित के लिये (इह) यहाँ (प्रजाम्) प्रजा [सन्तान, सेवक आदि जनता] (च) और (द्रविणम्) धन (दत्त्वा) देकर (ताम्) उस को (अगतस्य) बिना प्राप्त हुए [आगे आनेवाले काल] के (पन्थाम् अनु) मार्ग के पीछे-पीछे (वहन्तु) वे [पिता आदि] ले चलें, (विराट्) बड़े ऐश्वर्यवाली (इयम्) यह (सुप्रजाः) उत्तम जन्मवाली [वधू] (अति) अत्यन्त (अजैषीत्) जय पावे ॥७४॥
भावार्थभाषाः - सब बड़े लोग सेवक धनआदि से प्रयत्न करें कि महाविदुषी, पुरुषार्थिनी, स्त्रीरत्न कुलवधू उत्तमसन्तान उत्पन्न करके आगे को यश बढ़ावे ॥७४॥
टिप्पणी: ७४−(या) वधूः (इदम्) स्थानम् (पूर्वा)प्रथमा। मुख्या (अगन्) आगच्छतु (रशनायमाना) रशनां कटिबन्धनं करोतीति रशनायते।तत्करोति तदाचष्टे। वा–० पा० ३।१।२६। रशना-णिच्, शानच्। कटिबन्धनं कुर्वाणा। सदापुरुषार्थयुक्ता (प्रजाम्) सन्तानसेवकादिजनताम् (अस्यै) वधूहिताय (द्रविणम्)धनम् (इह) गृहाश्रमे (दत्त्वा) (ताम्) वधूम् (वहन्तु) नयन्तु (अगतस्य)अप्राप्तस्य। अनागतस्य कालस्य (अनु) अनुसृत्य (पन्थाम्) पन्थानम् (विराट्)विविधैश्वर्यवती (इयम्) गुणवती (सुप्रजाः) जनी-विट्। सुजन्मा सती (अति)अत्यन्तम् (अजैषीत्) जयेत् ॥