वांछित मन्त्र चुनें

अङ्गा॑दङ्गाद्व॒यम॒स्या अप॒ यक्ष्मं॒ नि द॑ध्मसि। तन्मा प्राप॑त्पृथि॒वीं मोतदे॒वान्दिवं॒ मा प्राप॑दु॒र्वन्तरि॑क्षम्। अ॒पो मा प्राप॒न्मल॑मे॒तद॑ग्नेय॒मं मा प्राप॑त्पि॒तॄंश्च॒ सर्वा॑न् ॥

मन्त्र उच्चारण
पद पाठ

अङ्गात्ऽअङ्गात् । वयम् । अस्या: । अप । यक्ष्मम् । नि । दध्मसि । तत् । मा । प्र । आपत् । पृथिवीम् । मो । उत । देवान । दिवम् । मा । प्र । आपत् । उरु । अन्तरिक्षम् । अप: । मा । प्र । आपत् । मलम् । एतत् । अग्ने । यमम् । मा । प्र । आपत् । पितॄन् । च । सर्वान् ॥२.६९॥

अथर्ववेद » काण्ड:14» सूक्त:2» पर्यायः:0» मन्त्र:69


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

गृहआश्रम का उपदेश।

पदार्थान्वयभाषाः - (अस्याः) इस [प्रजाअर्थात् स्त्री-पुरुषों] के (अङ्गादङ्गात्) अङ्ग-अङ्ग से (वयम्) हम (यक्ष्मम्)क्षय रोग को (नि) निश्चय करके (अप दध्मसि) बाहिर डालते हैं। (तत्) वह (देवान्)नेत्र आदि इन्द्रियों में (मा प्र आपत्) न पहुँचे, (उत) और (मा) न (पृथिवीम्)भूमि में, (मा) न (दिवम्) धूप में और (उरु) चौड़े (अन्तरिक्षम्) अन्तरिक्ष में (प्र आपत्) पहुँचे। (अग्ने) हे विद्वान् ! (एतत्) यह (मलम्) मैल (अपः) जलों में (मा प्र आपत्) न पहुँचे, और (यमम्) वायु में (च) और (सर्वान्) सब (पितॄन्) ऋतुओंमें (मा प्र आपत्) न पहुँचे ॥६९॥
भावार्थभाषाः - विद्वान् राजा और सबलोग हवन और अन्नशोधन क्रियाओं से नगर-ग्राम आदि में से रोगजनक दुर्गन्ध आदिदोषों को हटाकर अपने प्रजाजनों को नीरोग स्वस्थ रक्खें ॥६९॥
टिप्पणी: ६९−(अङ्गादङ्गात्)सर्वस्मादङ्गात् (वयम्) (अस्याः) प्रजायाः (अप) दूरीकरणे (यक्ष्मम्) राजरोगम् (नि) निश्चयेन (दध्मसि) धारयामः (तत्) मलम् (मा प्रापत्) मा प्राप्नुयात् (पृथिवीम्) (मा) निषेधे (उत) अपि च (देवान्) चक्षुरादीनीन्द्रियाणि, यथामहीधरस्य दयानन्दस्य च भाष्ये-यजुः० ४०।९। (दिवम्) प्रकाशम् (मा प्रापत्) (उरु)विस्तृतम् (अन्तरिक्षम्) (अपः) जलानि (मा प्रापत्) (मलम्) मालिन्यम् (एतत्) (अग्ने) हे विद्वन् (यमम्) वायुलोकम्। यमो यच्छतीति सतः-इति मध्यस्थानदेवतासुपाठः-निरु० १०।१९। यमः। मध्यस्थानो वायुः-इति देवराजयज्वा निघण्टुटीकायाम् (माप्रापत्) (पितॄन्) ऋतून्, यथा दयानन्दभाष्ये-यजुः–० ८।६०। (सर्वान्) समस्तान् ॥