ये अन्ता॒याव॑तीः॒ सिचो॒ य ओत॑वो॒ ये च॒ तन्त॑वः। वासो॒ यत्पत्नी॑भिरु॒तं तन्नः॑स्यो॒नमुप॑ स्पृशात् ॥
पद पाठ
ये । अन्ता: । यावती: । सिच: । ये । ओतव: । ये । च । तन्तव: । वास: । यत् । पत्नीभि: । उतम् । तत् । न: । स्योनम् । उप । स्पृशात् ॥२.५१॥
अथर्ववेद » काण्ड:14» सूक्त:2» पर्यायः:0» मन्त्र:51
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
गृहआश्रम का उपदेश।
पदार्थान्वयभाषाः - (ये) जो (अन्ताः)वस्त्र के आँचल, (यावतीः) जितनी (सिचः) कोरें, (ये) जो (ओतवः) बुनावटें, (च) और (ये) जो (तन्तवः) तन्तु [ताँते] हैं। (यत्) जो (वासः) वस्त्र (पत्नीभिः)पत्नियों करके (उतम्) बुना गया है, (तत्) वह (नः) हम से (स्योनम्) सुख के साथ (उप स्पृशात्) चिपटा रहे ॥५१॥
भावार्थभाषाः - जैसे विदुषी चतुरस्त्रियों के बुने और बनाये वस्त्र शरीर को सुख देते हैं, वैसे ही विद्वानों केविचारपूर्वक किये काम उपकारी होते हैं ॥५१॥
टिप्पणी: ५१−(ये) (अन्ताः) वस्त्रान्ताः (यावतीः) यत्संख्याकाः (सिचः) षिच आर्द्रीकरणे-क्विप्। वस्त्रान्तविशेषाः (ये) (ओतवः) सितनिगमिमसिसच्यवि०। उ० १।६९। अव रक्षणादिषु-तुन्, ऊठ्च, यद्वा आङ्+वेञ्तन्तुसन्ताने-तुन् सम्प्रसारणं च। पटे दीर्घतन्तवः (ये) (च) (तन्तवः) तनुविस्तारे-तुन्। सूत्राणि (वासः) वस्त्रम् (यत्) (पत्नीभिः) (उतम्) वेञ् तन्तुसन्ताने-क्त। स्यूतम् (तत्) (नः) अस्मान् (स्योनम्) सुखेन (उप) उपेत्य (स्पृशात्) स्पशेत् ॥
