वांछित मन्त्र चुनें
262 बार पढ़ा गया

आ॑त्म॒न्वत्यु॒र्वरा॒ नारी॒यमाग॒न्तस्यां॑ नरो वपत॒ बीज॑मस्याम्। सा वः॑प्र॒जां ज॑नयद्व॒क्षणा॑भ्यो॒ बिभ्र॑ती दु॒ग्धमृ॑ष॒भस्य॒ रेतः॑ ॥

मन्त्र उच्चारण
पद पाठ

आत्मन्ऽवती । उर्वरा । नारी । इयम् । आ । अगन् । तस्याम् । नर: । वपत । बीजम् । अस्याम् । सा । व: । प्रऽजाम् । जनयत् । वक्षणाभ्य: । बिभ्रती । दुग्धम् । ऋषभस्य । रेत: ॥२.१४॥

अथर्ववेद » काण्ड:14» सूक्त:2» पर्यायः:0» मन्त्र:14


पण्डित क्षेमकरणदास त्रिवेदी

गृहआश्रम का उपदेश।

पदार्थान्वयभाषाः - (आत्मन्वती) आत्मा [भीतरी बल] वाली (उर्वरा) उपजाऊ धरती [के समान], (इयम्) यह (नारी) नारी [नर कीपत्नी] (आ अगन्) आयी है, (नरः) हे नर ! [वर] (तस्याम्) उस (अस्याम्) ऐसी [गुणवतीवधू] में (बीजम्) बीज (वपत) बो। (सा) वह [नारी] (ऋषभस्य) वीर्यवान् पुरुष के (दुग्धम्) दूध समान (रेतः) वीर्य को (बिभ्रती) धारण करती हुई (वक्षणाभ्यः) अपनेपेट की नाड़ियों से (वः) तेरे लिये (प्रजाम्) सन्तान (जनयत्) उत्पन्न करे ॥१४॥
भावार्थभाषाः - जैसे बलवती उपजाऊ भूमिमें विधिपूर्वक जोतकर उत्तम बीज बोने से उत्तम अन्न उत्पन्न होता है, वैसे हीपूर्ण ब्रह्मचारिणी बलवती स्त्री के साथ पूर्ण ब्रह्मचारी वीर्यवान् ऋतुगामीपुरुष का यथाविधि संयोग होने से उत्तम सन्तान उत्पन्न होते हैं॥१४॥
टिप्पणी: १४−(आत्मन्वती) आभ्यन्तरशक्तियुक्ता (उर्वरा) शस्योत्पादनयोग्या भूमिर्यथा, (नारी) नरस्य पत्नी (इयम्) वधूः (आ अगन्) आगमत् (तस्याम्) नार्याम् (नरः) सुपांसुपो भवन्ति। वा० पा० ७।१।३९। एकवचनस्य बहुवचनम्। हे नः। नायक (वपत) तिङां तिङोभवन्ति। वा० पा० ७।१।३९। एकवचनस्य बहुवचनम्। वप। प्रक्षिप (बीजम्) (अस्याम्)ईदृश्यां गुणवत्याम् (सा) (वः) पूर्ववद्बहुवचनम्। तुभ्यम् (प्रजाम्) सन्तानम् (जनयत्) जनयेत् (वक्षणाभ्यः) वक्षःस्थलेभ्यः। उदरनाडीभ्यः (बिभ्रती) धारयन्ती (दुग्धम्) क्षीरतुल्यम् (ऋषभस्य) वीर्यवतः पुरुषस्य (रेतः) वीर्यम् ॥