वांछित मन्त्र चुनें

शं ते॒ हिर॑ण्यं॒शमु॑ स॒न्त्वापः॒ शं मे॒थिर्भ॑वतु॒ शं यु॒गस्य॒ तर्द्म॑। शं त॒ आपः॑श॒तप॑वित्रा भवन्तु॒ शमु॒ पत्या॑ त॒न्वं सं स्पृ॑शस्व ॥

मन्त्र उच्चारण
पद पाठ

शम् । ते । हिरण्यम् । शम् । ऊं इति । सन्तु । आप: । शम् । मेथि: । भवतु । शम् । युगस्य । तर्द्म । शम् । ते । आप: । शतऽपवित्रा: । भवन्तु । शम् । ऊं इति । पत्या । तन्वम् । सम् । स्पृशस्व ॥१.४०॥

अथर्ववेद » काण्ड:14» सूक्त:1» पर्यायः:0» मन्त्र:40


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विवाह संस्कार का उपदेश।

पदार्थान्वयभाषाः - [हे वधू !] (ते) तेरेलिये (हिरण्यम्) सोना [द्रव्य, आभूषण आदि] (शम्) सुखदायक [हो], (उ) और (आपः)प्रजाएँ [सन्तान, सेवक आदि] (शम्) शान्तिदायक (सन्तु) होवें, (मेथिः) पशुबाँधने का काष्ठदण्ड (शम्) आनन्दप्रद और (युगस्य) जूए का (तर्द्म) छिद्र (शम्)शान्तिदायक (भवतु) होवे। (ते) तेरे लिये (शतपवित्राः) सैकड़ों प्रकार शुद्धकरनेवाले (आपः) जल (शम्) शान्तिदायक (भवन्तु) होवें, (शम्) शान्ति के लिये (उ)ही (पत्या) पति के साथ (तन्वम्) अपनी श्रद्धा को (सं स्पृशस्व) संयुक्त कर ॥४०॥
भावार्थभाषाः - सासु-ससुर आदि स्वागतकरके सुवर्ण आभूषण आदि जो कुछ पदार्थ देवें, वधू उन्हें प्रसन्न होकर स्वीकारकरे और घर के सन्तान, सेवक पशुओं, अन्न, जल आदि के प्रबन्ध में प्रवृत्त होकरआनन्द पावे और पति में सदा पूर्ण प्रीति रक्खे ॥४०॥
टिप्पणी: ४०−(शम्) शान्तिदायम्।सुखकरम्। शान्तये (ते) तुभ्यम् (हिरण्यम्) सुवर्णम्। सुवर्णाभूषणम् (सम्) (उत)समुच्चये। अवधारणे (सन्तु) (आपः) म० ३७। प्रजाः (शम्) (मेथिः) मेथृ सङ्गे-इन्।पशुबन्धनकाष्ठदण्डः (भवतु) (शम्) (युगस्य) रथहलादेरङ्गभेदस्य (तर्द्म) तर्दहिंसायाम्-मनिन्। छिद्रम् (शम्) (ते) तुभ्यम् (आपः) जलानि (शतपवित्राः)बहुप्रकारेण शोधनशीलाः (शम्) (उ) (पत्या) स्वामिना सह (तन्वम्) तनु विस्तारे, तनश्रद्धायामुपकारे च-ऊ प्रत्ययः। श्रद्धाम् (सं स्पृशस्व) संयोजय ॥